पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
प्रथमः सर्गः।

 नेति ॥ क्षितिं प्रहाय त्यक्त्वा नभोऽन्तरिक्षमाश्रिताःप्राप्ताः खगाः पक्षिण आरवैः शब्दैस्तं नलमिति पूर्वोक्तप्रकारेणाचुक्रुशुर्निनिन्दुः । खलु उत्प्रेक्षायां, निश्चये वा। इतीति किम्-हे अङ्ग, दीनकर्तृकसामर्षामन्त्रणे यस्या वसुधाया उज्झितस्थितिस्त्यक्तमर्याद ईदृशो निरपराधप्राणिधारणलक्षणमधर्मं कुर्वाणो निरपत्रपो वा त्वं पतिः पालयिता सेयं वसुधा पृथ्वी वासयोग्या न भवतीति वरं शून्यं नभ एव आश्रयिष्यामः, न तु बहुधनरत्नसंपूर्णां वसुंधराम् । दुष्टस्वामित्वादित्यर्थः । अन्योऽपि सोपद्रवं देशं त्यजति । आरवैरित्यत्र 'ऋदोरप्' इत्यपो नित्यम् 'उपसर्गे रुवः' इति बाधके घञि प्राप्ते 'विभाषाङि रुप्लुवोः' इत्याङि घञो विकल्पविधानात्पक्षेऽप् ॥

न जातरूपच्छदजातरूपता द्विजस्य दृष्टेयमिति स्तुवन्मुहुः।
अवादि तेनाथ स मानसौकसा जनाधिनाथः करपञ्जरस्पृशा १२९

 न जातेति ॥ अथानन्तरमिति पूर्वोक्तप्रकारेण मुहुर्वारंवारं स्तुवन्स जनाधिनाथो नलः (तेन ) मानसौकसा हंसेनावादि वक्ष्यमाणप्रकारेणोक्तः । किंभूतेन-करपञ्जरं हस्तलक्षणं पञ्जरं पक्षिबन्धनयन्त्रं स्पृशतीति तेन । इतीति किम्-द्विजस्य पक्षिणो जातरूपस्य सुवर्णस्य छदौ पक्षौ ताभ्यां जातं रूपं सौन्दर्यं यस्य तस्य भावस्तत्ता, सा क्वापि न दृष्टेति । अथच ब्राह्मणमात्रस्य सौवर्णप्रच्छदसंजातसौन्दर्यमाश्चर्यकारि भवति । पञ्जरपदेन करपुटस्य शैथिल्यात्पीडाभावः सूच्यते ॥

धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः ।
तवार्णवस्येव तुषारसीकरैर्भवेदमीभिः कमलोदयः कियान् ॥१३०॥

 धिगिति ॥ हे राजन्, हेमजन्मनः सुवर्णप्रभवस्य सुवर्णप्रभवत्वान्मम पक्षान्समीक्ष्य दृष्ट्वा तृष्णया स्पृहया तरलं चञ्चलं भवन्मनस्त्वदन्तःकरणं धिक् गद्यमस्तु । सुवर्णाभिलाषेणैव त्वयाहं धृतः, स्तुतश्चेत्यर्थः। अमीभिः पक्षैस्तव राज्ञः सतः कियान्कियत्परिमाणः कमला लक्ष्मीस्तस्या उदय आधिक्यं भवेत् । अपितु नाल्पोऽपीत्यर्थः । कैः कस्येव-तुषारसीकरैर्हिमकणैरर्णवस्य समुद्रस्येव । यथा हिमकणैः समुद्रस्य कमलं जलं तस्योदयः कियान् । यथोदकवृद्ध्यर्थं समुद्रेण हिमकणा नाद्रियन्ते, तथा समृद्धेन त्वया मम पक्षसुवर्णं नाभिलषणीयमिति भावः । परद्रव्याभिलाषेण कियांल्लक्ष्मीसमुदयो भवेत् , अपि तु विपदेवेति वा । 'कमला श्रीर्हरिप्रिया', 'सलिलं कमलं जलम्' इत्यमरः। धिग्योगे मन इति द्वितीया ॥

न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः ।
विगर्हितं धर्मधनैर्निबर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥१३१॥

न केवलमिति ॥ हे राजन् , त्वदीक्षणात्साधोस्तव ईक्षणाद्विलोकनाद्विश्वसितो विश्वासं प्राप्तोऽन्तरात्मा मनो यस्यैवंभूतस्य मम वधः केवलं प्राणिवधो जन्तुहिंसामात्रं


१ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी। २ 'अत्रानुप्रासरूपकालंकारौ' इति साहित्यविद्याधरी। ३ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी ।