ध्वजं लाञ्छनभूतम् , अथच-उच्चोच्चतरत्वाद्धजमिव तदग्रस्थित्या नलदर्शनवशात्तदीयदोषविचारोपायभूतं तं बिभीतकं निजं स्वीयमालम्बनमाधारं बहु मेने। 'गृहारामास्तु निष्कुटाः' इत्यमरः॥
नि[१]ष्पदस्य कलेस्तत्र स्थानदानाद्बिभीतकम् । |
निष्पदस्यति ॥ तत्र पुरे वने च निष्पदस्याश्रयरहितस्य कलेः स्थानदानात्स्वेनैव तदाधारभूतत्वात्स बिभीतकः केवलनिवासभूतत्वात्कलिद्रुमः कलिसंबन्धी द्रुमः परं केवलमासीदिति न । किंतु कलिं प्रत्यभिलाषपूरणात्कल्पद्रुमोप्यासीत् । अन्योपि निराश्रयस्याश्रयदानात्कल्पद्रुमत्वेन व्यपदिश्यते । 'भूतावासः कलिद्रुमः' इत्यमरः ॥ पापिनापि कलिना बिभीतकः स्थान प्राप्तमित्यत्र हेतुमुत्प्रेक्षते-
ददौ पदेन धर्मस्य [२]स्थातुमेकेन यत्कलिः । |
ददाविति ॥ यद्यस्माद्धेतोः कलिः प्रवाहानादितयाऽतीते कलियुगसमये धर्मस्यैकेन पदेन चतुर्थांशेन स्थानं ददौ । ततस्तस्मात्तदा नलराज्यसमये कृतयुगे स विभीतकोप्येक एव तस्य कलेः पदं चरणः, अथच-स्थानम्, अमिलत्संजात इत्यहं मन्ये । 'कृतं कर्म युज्यते' इति न्यायेन कालान्तरे यावद्दत्तं तावदेव तदानीं तेन लब्धमित्यहं मन्य इत्युत्प्रेक्षा । धर्मस्य संबन्धमात्रविवक्षया षष्टी ॥
उद्भिद्विरचितावासः कपोतादिव तत्र सः। |
उद्भिदिति ॥ तत्रोद्यान उद्भिदि वृक्षे बिभीतके विरचित आवासः स्थितिर्येन स कलिः साग्नेरग्निहोत्रवतो द्विजात्क्षत्रियात्, तथा-दिक्षितात्स्वीकृताग्निहोत्रदीक्षाद्स्माद्राज्ञोऽभिषेकादिगुणयुक्तान्नलात्सकाशात्सम्यक्त्रासं महाशापनिग्रहं प्राप । 'राज्ञो द्विजात्' इत्येताभ्यां स्वाभाविकं निग्रहे सामर्थ्यं सूचितम् । 'साग्नेर्दीक्षितात्' इत्येताभ्यां च तपोजनितं शापे सामर्थ्यं सूचितम् । एवंविधोऽयं समीपस्थितं मां निश्चयेन ज्ञास्यति, शापं च दास्यतीत्यन्तर्महद्भयं प्रापेत्यर्थः । अग्निहोत्रिणो नलस्य संबन्धिनः कृतयज्ञदीक्षात्तस्मादतिप्रसिद्धाद्विजाबाह्मणाद्गौतमात्पुरोधसः सकाशाद्भयं प्राप । नलाग्निहोत्रपरिचर्यार्थ तत्र वर्तमानात्स्वयमप्यग्निहोत्रादिदीक्षायुक्ताञ्च गौतमात्पुरोधसः सकाशाद्भीत इत्यर्थ इति वा । कस्मादिव-कपोतादिव । यथा-अग्निसहितादङ्गारभक्षिणः, तथा-ईक्षितात्कपोतनाम्नो द्विजात्पक्षिणः सकाशाद्वृक्षे विरचितावासः