रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः। |
रक्षीति ॥ कलिस्तत्र पुरे रक्षिणां रक्षकाणां लक्षं संघस्तेन यद्धृतत्वं परिवेष्टितत्वं तेन हेतुना प्रवेष्टुमप्यशक्यत्वात्तपोधनैः कृत्वा न बाधनं बाधयतीति बाधनमेवंविधं न भवति तापसानां तत्र प्रवेशाभावात्तापसनिमित्तस्वबाधारहितम् , अत एव-मनाक् ईषत्स्वानुकूलं स्वस्मै हितम्, एवंविधं मेने । विशेषणबलाद्विशेष्याक्षेपात्तमारामं स्वहितं मेन इत्यर्थः । यतो-मानी अभिमानवान् । नलपराभवार्थ तत्रैव निवासवाञ्छां दधारेत्यर्थः । किल प्रसिद्धौ । रक्षिलक्षवृतत्वेनैव बाधकम् , न पुनस्तपोधनैर्बाधकम् । अतस्तत्र पुरे तमाराममेव मनाक् स्वहितं मेन इत्यर्थः । रक्षकबाधने सत्यप्यदृश्यतयापि स्वस्य प्रवेष्टुं शक्यत्वान्नतु तपोधनबाधन इति मनागित्युक्तम् । एवं संकटे किमित्यवात्सीदित्यत आह-यतो मानी । अभिमानसाधनाय संकटमपि मानिनः सहन्त इत्यर्थ इति वा । रक्षकवृतत्वेन मुनिकर्तृकं बाधनं मनागपि तत्रारामे नास्तीति तं स्वानुकूलं मेन इति वा ॥
दलपुष्पफलैर्देवद्विजपूजाभिसंधिना। |
दलेति ॥ स कलिस्तत्रोद्यानवने दलैः पत्रैः पुष्पैः फलैश्च कृत्वा देवानां द्विजानामतिथीनां च पूजा तद्विषयेणाभिसंधिनाशयेन कृत्वा देवद्विजपूजैवाभिसंधिराशयो यस्यैवंविधेन वा दलादिभिर्देवपूजां कर्तुकामेन नलेनार्जितानारोपितानाम्रादिद्रुमानाक्रमितुमारोढुमाश्रयितुं च न प्राप । तेषां धर्मोपयोगित्वात् , स्वस्य च पापरूपत्वात्तानाश्रयितुं नाशकदित्यर्थः॥
अथ सर्वोद्भिदासतिपूरणाय स रोपितम् । |
अथेति ॥ अथ स कलिर्धर्मे धर्मकार्य विषयेऽकर्मठमकर्मशूरमपि पत्रादीनां देवाद्यनुपयोगाद्धर्मकार्यानहमपि सर्वेषामुद्भिदां वृक्षाणामासत्तेः सांनिध्यस्य पूरणाय वृक्षलतागुल्मादिजातमत्रास्तीति कीर्तिपूर्तिमात्राय तत्रोद्याने नलेनारोपितमेकं सर्ववृक्षास- त्तिपूरणस्यैकेनैव कृतत्वादेकसंख्यं विभीतकं कुटं वृक्षं ददर्श । 'अनोकहः कुटः शालः' इत्यमरः । कर्मणि घटत इति 'कर्मणि घटोऽठच्' । 'कर्मशूरस्तु कर्मठः' 'उद्भिदस्तरुगुल्माद्याः' इत्यमरः॥
स तं नैषधसौधस्य निकटं निष्कुटध्वजम् । |
स इति ॥ स तस्मिन्वने नैषधसौधस्य निकटं समीपतिनं निष्कुटस्य गृहारामस्य-