पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७७
सप्तदशः सर्गः।

आननन्द निरीक्ष्यायं पुरे तत्रात्मघातिनम् ।
सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ विव्यथे ॥२०२
॥}}

 आननन्देति ॥ अयं तत्र पुर आत्मघातिनं कंचन निरीक्ष्याननन्द । 'सर्वत एवात्मानं गोपायेत्' इति विध्यतिक्रमात्पापकार्ययं ममाश्रयः स्यादिति बुद्ध्या जहर्षेत्यर्थः । अथ विचारणायां सत्यामेनमात्मघातिनं नाम्ना सर्वस्वारस्य यज्ञस्य यज्वानं यजमानं दृष्ट्वा ज्ञात्वा विव्यथे। आसन्नमरणो ह्यविचिकित्स्यरोगादिस्तत्राधिकारी । 'सोन्त्येष्टौ सर्वस्वाराख्ये यने आत्मानमेव पशुमन्त्रैः संस्कृतं घातयित्वा यज्ञभागमर्पयति' इति श्रुतिः। वैधत्वादात्मघातदोषाभावाव्द्यथित इत्यर्थः । आत्मघातिनं ताच्छील्ये णिनिः ॥

ऋतौ महाव्रते पश्यन्ब्रह्मचारीत्वरीरतम् ।
यज्ञे यज्ञक्रियामज्ञः स [१]भण्डाकाण्डताण्डवम् ॥ २०३॥

 क्रताविति ॥ स महाव्रताख्ये ऋतौ ब्रह्मचारी चेत्वरी च तयो रतं मैथुनं पश्यन्यज्ञक्रियां भण्डानामसत्यभापणादिव्यापारशीलानामकाण्डताण्डवमसमयोद्धतनृत्तमिव जज्ञे मेने । यतोऽज्ञो मूर्खः । भण्डा यथा बहुजनसमक्षं गुह्यादि प्रकाशयन्ति, तथादिवैव बहुजनसमक्षमश्लीलव्यापारकरणाद्यागकर्म भण्डव्यापारतुल्यमिति यज्वानः सर्वेऽप्यसभ्या इति मेन इत्यर्थः । 'महावते ब्रह्मचारिपुंश्चल्योः संप्रवादः' इत्युपनिषत् । एति तच्छीलेत्वरी स्वैरिणी 'इण्नश-' इति क्वरपि तुकि च 'टिड्ढाणञ्-' इति ङीप् ॥

यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गताम् ।
दृष्ट्वाचष्ट स कर्तारं श्रुतेर्भण्डमपण्डितः ॥ २०४॥

 यज्वेति ॥ स यज्वनो यजमानस्य भार्याया अश्वमेधाख्यस्य यज्ञस्याश्वस्तस्य लिङ्गमालिङ्गत्येवंशील वराङ्गं गुह्यं यस्यास्तस्या भावस्तत्ता तां दृष्ट्वा श्रुतेर्वॆदस्य कर्तारं भण्डमाचष्टाकथयत् । द्वापरस्याग्र इत्यर्थः । उन्मत्तत्वादात्मानं प्रत्येव वा । यतोऽपण्डितः शास्त्रानुसारिबुद्धिरहितः। 'पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हातव्यानि हेतुभिः' । इति राजाज्ञावन्निर्विचारं वेदार्थोऽनुष्ठेयः । अश्वमेधप्रकरणे 'अश्वस्य शिश्नं महिण्या उपस्थे निधत्ते' इत्यादिश्रुतेः। 'कर्ता भण्डः' इति श्रुतिकर्तुर्भण्डत्वाभिधानान्मूर्खः ॥

अथ भीमजया जुष्टं व्यलोकत कलिर्नलम् ।
दुष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाप्रभुम् ॥२०५॥

अथेति ॥ अथैवंपुरपरिभ्रमक्रमवशा (त्सकलनगरे धर्मात्मनामेव दर्शनेन चित्तखेदा)


  1. 'भाण्डा--' इति पाठे-'भण्डानामिदं भाडं तच्च तदकाण्डं ताण्डवं वा' इति व्याख्येयम्-इति सुखावबोधा।