पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६९
सप्तदशः सर्गः।

 पुमांसमिति ॥ तत्र पुरेऽयं पुमांसं मिथ्यावदावदं मृषाभाषिणं विदञ्जानन्स्वमित्रलाभान्मुमुदे । अथ पश्चात्तं नरं स्वस्त्रियं प्रत्युद्दिश्य तथाऽलीकभाषिणं वीक्ष्य ज्ञात्वा मित्रनाशादिव दुःखवशान्म्लानवान्म्लानतां गतः । पत्नीं प्रति क्रीडायामसत्यदोषाभावाद्व्यथितोभूदित्यर्थः । 'न नर्मयुक्तं वचनं हिनस्ति स्त्रीपुंसयोः-' इति भारतादौ । विदन् 'विदेः शतुर्वसुः' इत्यत्र विकल्पानुवृत्तेर्वसोरभावः। एवं 'चतुर्दशतयीं विद्यां विदद्भिः-' इत्यत्रापि ज्ञेयम् । वदावदं 'चरिचलि-' इत्यादिना द्वित्वमभ्यासस्याक्च । म्लानवान् क्तवतोस्तकारस्य 'संयोगादेरातः-' इति नः॥

यज्ञयूपघनां जज्ञौ स पुरं शङ्कुसंकुलाम् ।
जनैर्धर्मधनैः कीर्णां [१]व्यालक्रोडीकृतां च ताम् ॥ १७२ ॥

 यज्ञेति ॥ स यज्ञयूपैः खादिरौदुम्बरपशुबन्धस्तम्भैर्घनां नितरां व्याप्तां तां पुरं शङ्कुभिस्तीक्ष्णाग्रकीलैः संकुलां व्याप्तामिव जज्ञौ मेने । तथा -धर्मधनैर्जनैः कीर्णां तां पुरं व्यालैः सर्पैर्दुष्टश्वापदैर्वा दुष्टगजैर्वा क्रोडीकृतां सर्वत्र पूर्णां व्यालाः क्रोडे मध्ये यस्यास्तामेतादृशीं कृतामिव मेने । कीलसर्पादिभिर्व्याप्तं स्थानं यथा प्रवेष्टुमशक्यम् , तथा सा पुरी तस्य प्रवेष्टुमशक्या जातेत्यर्थः । 'व्यालो भुजंगमे क्रूरे श्वापदे दुष्टदन्तिनि' इति विश्वः । रेफान्तः पूःशब्दः स्त्रीलिङ्गः । चः समुच्चयार्थ इवार्थो वा ॥

स पार्श्वमशकद्गन्तुं न वराकः पराकिणाम् ।
मासोपवासिनां छायालङ्घने घनमस्खलत् ॥ १७३॥

 स इति ॥ वराकः क्वचिदपि स्थानालाभाद्दीनः स कलिः पराकिणां द्वादशरात्रोपवासरूपपराकाख्यकृच्छ्रविशेषव्रतचारिणां पार्श्वं गन्तुं नाशकत् । तथा–मासोपवासिनां कायप्रतिच्छायाया अपि लङ्घनेऽतिक्रमणे तस्या अपि समीपे गन्तुं घनं नितरामस्खलद्भ्रमत्पदोऽभूत् । तच्छायामपि द्रष्टुं नाशकदित्यर्थः।वराकः 'जल्पभिक्ष-' इति षाकन् ॥

आवाहितां द्विजैस्तत्र गायत्रीमर्कमण्डलात् ।
स संनिदधतीं पश्यन्दृष्टनष्टोऽभवद्भिया ॥ १७४॥

 आवाहितामिति ॥ तत्र पुरे स द्विजैस्त्रैवर्णिकैः 'आगच्छ वरदे-' इत्यादिमन्त्रैरावाहिताम् अनन्तरमर्कमण्डलाद्भक्त्यतिशयसामर्थ्यात्सूर्यबिम्बान्निर्गत्य दिव्यरूपेणा संनिदधतीं तत्समीपमागच्छन्तीं प्रातःसंध्याधिदेवतां गायत्रीं पश्यन्गायत्र्याः सकाशाद्भयेन गायत्र्यैवादौ दृष्टः पश्चात्तदानीमेव नष्टोऽदृश्योऽभवत् । संध्यावन्दनं कुर्वतो द्विजान्दृष्ट्वा गायत्री मां विनाशयिष्यतीति ततः स्थानात्पलाय्य गत इत्यर्थः । 'गायत्री सूर्यबिम्बस्था-' इति ध्यानम् । अर्कमण्डलादावाहितामिति वा । दृष्टनष्टः 'पूर्वकाल-' इति समासः॥


  1. 'व्यादृ' इत्यपि पाठः सुखावबोधायाम्