पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६७
सप्तदशः सर्गः।

 इदानीं पुरप्रवेशविघ्नानाह-

वेदानुद्धरतां तत्र मुखादाकर्णयन्पदम् ।
न प्रसारयितुं कालः कलिः पदमपारयत् ॥ १६३ ॥

 वेदानिति ॥ तत्र पुरे वेदानृगादीनुद्धरतां गुणनिकां कुर्वतां श्रोत्रियाणां मुखात्पदं पदकारकल्पितं संहिताविभागरूपं पदसंज्ञमाकर्णयञ्शृण्वन्कालः समयरूपः, अथच-पापरूपः कलिः पदमेकमपि चरणन्यासं प्रसारयितुं नापारयत् । पापरूपत्वादित्यर्थः । एतेन नलपुरस्य धर्मपूर्णत्वमुक्तम् । वेदान्, शतृयोगे 'न लोका-' इति षष्टीनिषेधः ॥

श्रुतिपाठकवक्रेभ्यस्तत्राकर्णयतः क्रमम् ।
क्रमः संकुचितस्तस्य पुरे दूरमवर्तत ॥ १६४ ॥

 श्रुतीति ॥ तत्र पुरे श्रुतिपाठका वेदाध्यापयितारस्तेषां वक्रेभ्यः सकाशात्क्रमं पूर्वपदपरित्यागेनोत्तरपदग्रहणादिकं क्रमसंज्ञं ग्रन्थमाकर्णयतः शृण्वतोऽस्य कलेः क्रमश्चरणो गतिर्वा दूरं नितरां संकुचितोऽवर्तत । क्रमाकर्णनाद्भयेन पापः पदमपि पुरश्चलितुमशक्तस्ततो देशाद्द्रुतं न्यवृतदित्यर्थः ॥

तावद्गतिधृताटोपा पादयोस्तेन संहिता।
न वेदपाठिकण्ठेभ्यो यावदश्रावि संहिता ॥ १६५ ॥

 तावदिति ॥ तेन कलिना वेदपाठिनां कण्ठेभ्यो मुखेभ्यो यावत्संहिता पदक्रमरूपावस्थाद्वयविलक्षणा ऋगादिरूपा नाश्रावि नाकर्णिता तावत्कालं तावद्देशपर्यन्तं च प्रतिबन्धराहित्याद्धृताटोपा धृतसंरम्भा सत्वरा पादयोर्गतिः संहिता संयोजिता । यावत्कालं यावति च देशे संहिता नाकर्णिता, तावत्कालं तावद्देशपर्यन्तं च प्रतिबन्धराहित्याच्छीघ्रगतिरभूत् । यदा यस्मिंश्च देशे सा श्रुता तदैव तस्य गतिभङ्गोऽभूदित्यर्थः । यावत्संहिताऽश्रावि, तावत्पदयोः सत्वरा गतिर्न योजिता, अपि तु तावदेव योजिता । संहिताश्रवणपर्यन्तमेव सत्वरगतिः सोभूत् , नानन्तरमित्यर्थ इति वा ॥

तस्य होमाज्यगन्धेन नासा नाशमिवागमत् ।
तथातत दृशौ नासौ ऋतुधूमकदर्थितः ॥ १६६ ॥

 तस्येति ॥ तस्य नासा अग्निहोत्रादिहोमाज्यं होमसंबन्धि घृतं तस्य गन्धेन परिमलेन हेतुना नाशमिव मरणवेदनामिवागमदन्वभूदित्युत्प्रेक्षा । इवशब्द एवकारार्थो वा। तथा तेनैव प्रकारेणासौ कलिः क्रतुधूमेन कदर्थिते पीडिते दृशौ नेत्रे अपि नातत प्रसारितवान् , किंचिन्न ददर्शेत्यर्थः । आज्यगन्धक्रतुधूमसंबन्धमात्रेण विव्यथ इत्यर्थः। अततेति तनोतेर्लुङि सिचि 'तनादिभ्यस्तथासोः' इति पाक्षिके सिज्लोपे तकारस्य झलादिङित्त्वाद् 'अनुदात्तोपदेशवनति-' इत्यनुनासिकलोपः॥