पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६१
सप्तदशः सर्गः।

इति पाठे-अवश्यं वश्यं वा करिष्ये इत्युक्त्वाकारप्रश्लेषेणाकरिष्यन्नपि दुष्यसि वाङ्मात्रेणापि पापसिद्धेः । किं पुनः करिष्यन्निति । अन्यत्पूर्ववत् । कार्यीयाः, 'तस्येदम्' इत्यर्थे 'वृद्धाच्छः' । हितार्थे 'तस्मै हितम्' इति वा ॥

द्रोहं मोहेन यस्तस्मिन्नाचरेदचिरेण सः।
तत्पापसंभवं तापमाप्नुयादनयात्ततः ॥ १४८ ॥

 द्रोहमिति ॥ यः पुरुषो मोहेनाज्ञानेनापि तस्मिन्पुण्यश्लोकेऽनपकारिणि द्रोहमपकारमाचरेत् , स पुरुषः ततस्तस्मादनयादन्यायाद्धेतोरचिरेण तस्मात्तादृशापकारेण जातात्पापात्संभवो यस्य तं तापं दुःखमाप्नुयात् । बुद्धिपूर्वकारी लभत इति किं वाच्यमित्यर्थः । नलद्रोहस्तस्मात्त्वया सर्वथा त्याज्य इति भावः । अनेन शापोपि दत्त इति ज्ञेयम् । मोहेनेत्यत्रार्थादपिशब्दो योज्यः । मोहस्येन स्वामिन्नज्ञानाश्रय मूर्खतमेति वा संबोधनम् ॥

युगशेष तव द्वेषस्तस्मिन्नेष न सांप्रत[१]म् । भविता न हितायैतद्वैरं ते वैरसेनिना ॥ १४९ ॥}}</poem>}}

 युगेति ॥ हे युगानां सत्यादीनां शेष कले, तस्मिन्नले तवैष द्वेषो न सांप्रतमयुक्तः । यस्माद्वैरसेनिना नलेन सह एतत्प्रारब्धं वैरं ते तुभ्यं हिताय न भविता शुभोदर्कं न भविष्यति । युगेषु शेष इति निर्धारणसप्तमीसमासः । सांप्रतमव्ययम् । हितयोगे ते इति चतुर्थी॥

तत्र यामीत्यसज्ज्ञानं राजसं सदिहास्यताम् ।
इति तत्र गतो मा गा राजसंसदि हास्यताम् ॥ १५०॥

 तत्रेति ॥ हे कले, तत्र नलसमीपे पराभवार्थं यामि गच्छामीत्येवंरूपं राजसं रजोगुणजनितं विचारासहम् । अत एवासदशोभनं सद्वर्तमानमिहास्मिन्काले देशे वाऽस्यतां त्यज्यतामिति । सद्भद्रमिति वा । इति विचार्येति यावत् । इति किम्-तत्र राजसंसदि तस्यां नलसभायां गतः सन् हास्यतां परिहास्यतां त्वं मा गाः । एवं विचार्य तत्र गतः सभ्यरुपहास्य एव भविष्यसि । नतु नलं पराभवितुं शक्ष्यसीत्येवंविधो विचारः परित्याज्य एवेत्यर्थः । असत्सदिति च विरोधाभासः । तत्र यामीति ज्ञानमसदयुक्तम् । यतो राजसम् । तर्हि किं कर्तव्यं तत्राह-इहास्मिन्नेव देश आस्यतां स्थीयताम् । इत एव परावर्तनीयमित्यर्थः । इत्यस्मदीयं ज्ञानं सद्भद्रमितीतिशब्दमावर्त्य व्याख्येयम् । विपक्षे बाधकमाहोत्तरार्धेन-तत्र स्वयंवरे गतो राजसभायां स्वयंवरे वृत्ते किमर्थमागत इति हास्यतामेव गमिष्यसि ॥


  1. 'सांप्रतः' इति पाठे-संप्रतिशब्दात् 'तस्येदम्' इत्यणि सांप्रतो नाधुनिक इत्यर्थः-इति सुखावबोधा ।