वाग्ग्मिनीं जडजिह्वस्तां प्रतिवक्तुमशक्तिमान् । |
वाग्ग्मिनीमिति ॥ कलिर्वाग्ग्मिनीं वाचोयुक्तिपरम्पराचतुरां तां देवीं प्रतिवक्तुं प्रत्युत्तरं दातुमशक्तिमानसमर्थो यतः-प्रत्युत्तरास्फुरणाज्जडजिह्वः कुण्ठितवदनशक्तिः,अत एव तां लीलया विलासव्याजेनावहेलितामवज्ञातां कृत्वा स्त्रियं त्वां प्रतिवक्तुमयुक्तमित्येवंप्रकारं परिहस्य देवानेवावदत् ॥
प्रौञ्छि वाञ्छितमस्माभिरपि तां प्रति संप्रति । |
प्रौञ्छीति॥ हे देवाः, संप्रत्यस्माभिरपि तां भैमीं प्रति वाञ्छितमभिलाषः प्रौञ्छि परिमार्जितः। त्यक्तमित्यर्थः। नोऽस्माकं पुनः कारुण्यस्य लेशोपि तस्मिन्नले नास्ति। नलमपकर्तुं प्रवर्तामह इत्यर्थः। प्रौञ्छि, उन्छेर्वर्जनार्थात्कर्मणि चिण् ॥
वृत्ते कर्मणि कुर्मः किं तदा नाभूम तत्र यत् । |
वृत्त इति ॥ हे देवाः, स्वयंवरलक्षणे कर्मणि वृत्ते जाते सति किं कार्यं कुर्मः, अपितु किंचिदिदानीं कर्तुं न शक्यम् । पश्चात्तापमात्रं भवति, न तु तल्लाभः परदारत्वात्,गतशोको न कर्तव्य इति च । तस्मात्तां प्रति वाञ्छितं त्यक्तमित्यर्थः। यतो यस्मात्तदा स्वयंवरसमये वयं तत्र नाभूम स्थिताः । तदानीं चेत्तत्राभविष्याम, तर्हि तथैवाकरिष्याम, तन्नाभूदित्यर्थः । हे देवाः, यूयमिदानीं पुनर्भैम्या नले वृते सत्यपि कालोचितं,नोऽस्माकमालोचितं विचारं शृणुताकर्णयत। नले कृपालेशोपि नास्तीति मयोक्तम्,तत्प्रकारमाकर्णयतेत्यर्थः। नः 'अस्मदो द्वयोश्च' इति बहुत्वम् । आलोचितं भावे क्तः॥
तदेवाह-
प्रतिज्ञेयं नले विज्ञाः कलेर्विज्ञायतां मम । |
प्रतिज्ञेति ॥ हे विज्ञाः, कलेर्ममेयं प्रतिज्ञा विज्ञायताम् । भवद्भिरिति शेषः । इयमिति किम्-अहं तेन नलेन प्रयोज्येन भैमीं च भूमिं च त्याजयामि शीघ्रं मोचयामि । अत एव तं जयामीति प्रतिज्ञा । मम चेतस्येवं वर्तत इति भवद्भिर्ज्ञायत एव, तथापि स्पष्टं मया कथ्यते तदाकर्ण्यतामित्यर्थः। कलेर्ममेत्यहंकारः सूचितः । तेन, अनुक्ते कर्तरि तृतीया । त्याजयामि, जयामीति वर्तमानसामीप्ये भविष्यति लट् ॥
नैषधेन विरोधं मे चण्डतामण्डितौजसः। |