पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५३
सप्तदशः सर्गः।

भवन्त इति । युक्तमेवैतदिति भावः । अयमप्युपहासः । 'लज्जयेव' इति पाठे उत्प्रेक्षा । प्रेक्ष्येति वक्रणापेक्षया समानकर्तृकत्वम् । यौष्माकीति 'तस्मिन्नणि च-' इति युष्माकादेशः। 'युष्माकम्' इति पाठः साधुः । एवमेवास्माकमित्यत्रापि द्रष्टव्यम् । वक्रणेति नामधातोर्युच्॥

स्थितं भवद्भिः पश्यद्भिः कथं भोस्तदसांप्रतम् ।
निर्दग्धा दुर्विदग्धा किं सा दृशा न ज्वलत्क्रुधा ॥ १२६ ॥

 स्थितमिति ॥ हे देवाः, तन्नलवरणं पश्यद्भिर्भवद्भिः कथं स्थितम् । औदासीन्येनेति शेषः । असांप्रतम् । अनुचितमेतदित्यर्थः। दुर्विदग्धा भवदवज्ञानादचतुराचारा सा भैमी ज्वलन्ती देदीप्यमाना क्रुत्क्रोधो यस्यां तया दृशा कृत्वा किमर्थं न निर्दग्धा सुतरां न भस्मसात्कृता । अपितु तादृक्सामर्थ्यसद्भावे तस्याश्च सापराधत्वे दग्धुमुचितम्, तदपि न कृतमित्येतदप्यनुचितमेवेत्यर्थः। 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । भोरिति प्रत्येकं संबुद्धिः॥

महावंशाननादृत्य महान्तमभिलाषुका ।
खीचकार कथंकारमहो सा तरलं नलम् ॥ १२७॥

 महेति ॥ कुलशीलादिना महान्तमत्युत्कृष्टं नलं (वरं) अभिलाषुका सा भैमी कश्यप सुतत्वान्महावंशान्दिव्यवस्त्रादिभूषितान्युष्मान्परित्यज्य तरलं चलस्वभावमनिश्चितबुद्धिं नलं कथंकारं कथमिव स्वीचकार । अहो आश्चर्यम् । महान्तं कामयमानया देवपरित्यागेन मनुष्यवरणान्महच्चित्रमित्यर्थः । अथ च-या महापरिमाणं वाञ्छति सातिविशालान्दृढान्वेणून्परित्यज्य तरङ्गस्पर्शमात्रेणापि चञ्चलं ह्रस्वं नलाख्यं तृणमङ्गीकरोतीति चित्रमेव । अत एव सा किं न भवद्भिर्दग्धेति भावः । अभिलाषुका, 'लषपत-' इत्युकञ् । महान्तमिति, 'न लोका-' इति षष्ठीनिषेधाद्द्वितीया। कथंकारं पूर्ववत् ॥

 इदानीं नलः कथं सोढ इत्याह-

भवादृशैर्दिशामीशैर्मृग्यमाणां मृगेक्षणाम्।
स्वीकुर्वाणः कथं सोढः कृतरीढस्तृणं नलः ॥ १२ ॥

 भवादृशैरिति ॥ भो देवाः, दिशामीशैर्महासमृद्धिभिर्भवादृशैर्मुग्यमाणां काम्यमानां मृगेक्षणां भैमीं स्वीकुर्वाणः समुद्वहन्, अत एव भवत्सु कृतरीढः कृतावज्ञः, तृणतुल्योऽतिनिःसारः, अथ च- नलशब्दवाच्यत्वात्तृणभूतः, स नलो भवद्भिः कथं केन प्रकारेण सोढः क्षान्तः । सा भवद्भिरभिलाषिता तया भवन्तोऽनादृता इत्युपहासः । मृगेक्षणां, 'न लोका-' इति षष्ठीनिषेधः। सोढः, 'तीषसह-' इतीड्विकल्पाद् 'यस्य विभाषा' इति निष्ठाया नेट् ॥

दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि ।
नावहत्किं तदुद्वाहे कूटसाक्षिक्रियामयम् ॥ १२९ ॥