पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३९
सप्तदशः सर्गः।

 पूर्वोक्तमेव द्रढयति-

ब्राह्मण्यादिप्रसिद्धाया गन्ता य[१]न्नेक्षतेजयम् ।
तद्विशुद्धिमशेषस्य वर्णवंशस्य शंसति ॥ ८७ ॥

 ब्राह्मण्येति ॥ ब्राह्मण्यमादिर्यस्य क्षत्रियत्वादिजातिविशेषस्य तेन प्रसिद्धा । यद्वा-बाह्मणी आदिर्यस्याः क्षत्रियादिस्त्रियाः सा ब्राह्मण्यादिः सा चासौ प्रसिद्धा च । तस्याः इयमुत्तमा ब्राह्मणी इत्यादिप्रकारेण रूढायाः स्त्रियाः गन्ता कामुकस्तां भुञ्जानो नरो दिव्ये जयं न ईक्षते पश्यतीति यत् । न प्राप्नोतीत्यर्थः । तज्जयानीक्षणमेव कर्त्रशेषस्य वर्णवंशस्य ब्राह्मणादिवर्णसङ्घस्य मातापित्रादिपरम्परया विशुद्धिं नितरां निर्दोषत्वं शंसति कथयति । ब्राह्मणीव्यभिचारी नरो ब्राह्मणोऽहं ब्राह्मणी नागममिति प्रतिज्ञाय यदा दिव्यं करोति तदा स पराजयत एवेति तावत्प्रत्यक्षम् । तथाच गम्याया गन्तुश्च पारदार्यादिदोषदूषितत्वेपि तन्मातापित्रादिपरम्पराया ब्राह्मण्यादिविशुद्धिस्तत्पराजयेनैव स्पष्टं कथिता । यदि जातेः शुद्धिर्नाभविष्यत् , तर्ह्येवं प्रतिज्ञायां कृतायामपि तयोर्ब्राह्मणत्वाभावाद्भङ्गो नाभविष्यत् । स तु दृश्यत इति भङ्ग एवान्यथानुपपत्त्या जातिशुद्धौ प्रमाणमित्यर्थः । ब्राह्मणाव्यिभिचारिण्यपि पराजयत एवेति तस्या अप्येतदुपलक्षणं ज्ञेयम् । प्रसिद्धाया इत्यनेन जातेरनपलापनीयत्वं सूचितम् । ब्राह्मण्यादिप्रसिद्धाया गन्ता ना पुरुषो यदजयं भङ्गमीक्षते तद्भङ्गेक्षणमिति वा व्याख्या। गन्तेति तृच् । अन्यथा 'न लोका-' इति षष्ठ्यभावः स्यात् । 'प्रसिद्धायाम्' इति पाठे विषयसप्तमी । अन्या व्याख्या क्लिष्टत्वादुपेक्ष्या ॥

 इदानीं संवादादपि वेदस्य प्रामाण्यमित्याह-

जलाननपरीक्षादौ संवादो वेदवेदिते।
गलहस्तितनास्तिक्यां धिग्धियं कुरुतेनते ॥ ८८ ॥

 जलेति ॥ हे चार्वाक वेदेन वेदिते बोधिते वेदमूले जलानलयोः, ताभ्यां परीक्षा शुद्धत्वनिश्चयः स आदिर्यस्य तुलादिव्यादेस्तादृशेऽर्थे संवादो यथोक्तदर्शनरूपः स ते तव धियं बुद्धिं गलहस्तितं बलान्निर्वासितं नास्तिक्यं यस्यास्तां न कुरुते धिक् । वाक्यार्थः कर्म । अनुचितमेतदित्यर्थः । जलदिव्ये हि जलमग्नः पुरुष आकपूर्णपुरुषमुक्तशरप्रत्यानयनमपेक्षमाणो यद्यनानीते शरे उन्मज्जति, तर्ह्यवाशुद्धः । आनीते तु शुद्ध इति वेदोक्तजलदिव्यम् । तच्च तथैव दृश्यत इति संवादः। वह्निदिव्ये तु तप्तलोहादौ दाहादाहाभ्यामशुद्धिशुद्धी इत्यप्युक्तं वेदेन । तत्रापि संवादः । तस्मिप्रामाण्यहेतौ संवादे सत्यपि नास्तिक्यं न जहासीत्याश्चर्यम् । मूर्खतरोऽसीति भावः । तव दिग्धियं निन्द्यां बुद्धिं निराकृतनास्तिक्यां न कुरुते इति वा । तव धियं धिक निन्द्यां न कुरुते अपितु करोत्येव । दूषयतीत्यर्थः। तव धियं न धिक्करोति, अपितु धिक्करोत्येवेति वा । यतो निराकृतनास्तिक्यामित्युभयत्रापि हेतुगर्भम् । संवादेन नास्ति-


  1. 'नेक्ष्यते जयन्' इति पाठे ब्राह्मण्यादिप्रसिद्धाया गन्ता जयन् विजयमानो नेक्ष्यते यदिति व्याख्येयमिति सुखावबोधा।