पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३७
सप्तदशः सर्गः।

 पात्राभावाद्दानं न कर्तव्यमित्याह-

दोग्धा द्रोग्धा च सर्वोयं धनिनश्चेतसा जनः।
विसृज्य लोभसंक्षोभमेकद्वा यद्युदासते ॥८२॥

 दोग्धेति ॥ अयं प्रत्यक्षग्रहणयोग्यः सर्वोपि जनो धनिन आढ्यान्नरान्दोग्धा दोहनशीलः । स्वामिभक्तदानादिविध्युपदेशादिना येन केनाप्युपायेन धनिकेभ्यो धनमाकर्षतीत्यर्थः। तथा -द्रोग्धा मनसा तद्विषये द्रोहकरणशीलश्च । कथमेनं हन्याम्, एतस्य धनादि च कथं गृह्णीयामित्यादिप्रकारेण तद्विषये द्रोहमेव चिन्तयतीत्यर्थः । ननु सर्वोप्येवमिति कथमुच्यत इत्यत आह-लोभसंक्षोभं द्रव्याद्यभिलाषजनितं मनसो नितरां क्षोभं कार्पण्यपारवश्यलक्षणं विकारमभिलाषातिरेकं वा विसृज्य यधुदासत उदासीना भवन्ति परस्वापकर्षणादेरुपरता भवन्ति तर्हि एकद्वा एको द्वौ वा, नतु तृतीयः। तादृशस्त्वल्पीयान् , तस्माद्युक्तमेवोक्तमित्यर्थः । तस्मात्परप्रतारणप्रयोजनक एव दानधर्माधुपदेश इति भावः। परप्रतारकत्वात्पात्रत्वाभावाहानं न कर्तव्यमित्यर्थः। 'विषह्य' इति पाठे लोभातिरेकं बलान्निरुध्येत्यर्थः। दोग्धा, द्रोग्धा ताच्छील्ये तृन् । तद्योगे च 'नलोका-' इति षष्ठीनिषेधाद्धनिन इति द्वितीया । एको द्वौ वा एकद्वाः, 'संख्ययाव्यया-' इत्यादिना बहुव्रीहौ 'बहुव्रीहौ संख्येये-' इति डच् समासान्तः ॥

 इदानीं विधिनिषेधजातं दूषयन्नुपसंहरति-

दैन्यस्यायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना।
स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम् ॥ ८३ ॥

 दैन्यस्येति ॥ अस्तैन्यं चौर्याभावो दैन्यस्य निर्धनत्वस्यायुष्यम् । वर्धकमित्यर्थः । चौर्य यावन्न क्रियते तावदैन्यं नापयाति । तस्मात्तत्कर्तव्यमेवेति भावः । तथा-अभक्ष्य लशुनगृजनग्राम्यसूकरादि । तद्वर्जनमिति यावत् । तत्कुक्षिवञ्चना स्वोदरविप्रलम्भनमेव स्वादुतमभक्ष्यपरिहारे जठरवञ्चनैव भवति, न तु स धर्मः। तस्मात्कि बहुना-आनन्दस्य सकलसुखस्य कन्दलीकन्दं प्ररोहमूलभूतमेकमसहायं केवलं स्वाच्छन्नं स्वेच्छाचारित्वमृच्छत आश्रयत । श्रौतस्मातसकलनिषेधान्परित्यज्य सर्वसुखहेतुत्वात्स्वेच्छाचारमेव कुरुतेत्युपदेशानस्मत्समाकर्णयतेति भावः। आयुष्यं, 'तस्मै हितम्' इति यत् । अस्तैन्यं स्तेनशब्दात् स्तेनाद्यन्नलोपश्च' इत्यत्र 'स्तेनाद्' इति योगविभागात्म्यनि अर्थाभावेऽव्ययीभावः । एवमभक्ष्यमित्यत्रापि । 'विन्दत' इति वा (पाठः ) 'विद्ल लाभे' लोट् ॥

इत्थमाकर्ण्य शक्रः सक्रोधतां दधे।
अवोचदुच्चैः कस्कोयं धर्ममर्माणि कृन्तति ॥ ८४ ॥

 दैन्यस्येति ॥ अस्तैन्यं चौर्याभावो दैन्यस्य निर्धनत्वस्यायुष्यम् । वर्धकमित्यर्थः । चौर्य यावन्न क्रियते तावदैन्यं नापयाति । तस्मात्तत्कर्तव्यमेवेति भावः । तथा-अभक्ष्य लशुनगृञ्जनग्राम्यसूकरादि । तद्वर्जनमिति यावत् । तत्कुक्षिवञ्चना स्वोदरविप्रलम्भनमेव स्वादुतमभक्ष्यपरिहारे जठरवञ्चनैव भवति, न तु स धर्मः। तस्मात्कि बहुना-आनन्दस्य सकलसुखस्य कन्दलीकन्दं प्ररोहमूलभूतमेकमसहायं केवलं स्वाच्छन्द्यं स्वेच्छाचारित्वमृच्छत आश्रयत । श्रौतस्मार्तसकलनिषेधान्परित्यज्य सर्वसुखहेतुत्वात्स्वेच्छाचारमेव कुरुतेत्युपदेशानस्मत्समाकर्णयतेति भावः। आयुष्यं, 'तस्मै हितम्' इति यत् । अस्तैन्यं स्तेनशब्दात् स्तेनाद्यन्नलोपश्च' इत्यत्र 'स्तेनाद्' इति योगविभागात्ष्यञि अर्थाभावेऽव्ययीभावः । एवमभक्ष्यमित्यत्रापि । 'विन्दत' इति वा (पाठः ) 'विद्ल लाभे' लोट् ॥

{{Block center|<poem>इत्थमाकर्ण्य शक्रः सक्रोधतां दधे। अवोचदुच्चैः कस्कोयं धर्ममर्माणि कृन्तति।।84।। {gapइत्थमिति ॥ शक्र इत्थं पूर्वोक्तं दुर्वर्णं वेदादिदूषकं चार्वाकस्य दुष्टवर्णवाक्यमाकर्ण्य