पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३५
सप्तदशः सर्गः।

 देव इति ॥ 'भूम्यादिकं सकर्तृकं कार्यत्वाद्धटवत्' इत्यादिना विचित्रस्य कार्यजातस्यामदादिविलक्षणेन कर्त्रा अवितव्यमिति सर्वज्ञस्य परमकारुणिकस्य सत्यवचसः सर्वकर्तुः प्रभोरीश्वरस्य साधितत्वात्सर्वशः कालत्रयवर्तिवस्तुविज्ञानवान्, लथा-करुणाभाक्कृपावान्, तथा-अवन्ध्या सत्या वेदरूपा वाग् यस्य । नैयायिकादिमते ईश्वरप्रणीतत्वादाप्तवचनत्वाद्वेदानां प्रामाण्यात्स्वतःप्रामाण्यस्य दूषितत्वादित्यर्थः।अथच-सफला यथोक्तार्थसाधिका वाग् यस्य स सत्यवाक् । भवसिद्धान्तेन देवश्चेदस्ति, तर्ह्यर्थिनो भुक्तिमुक्त्याद्यभिलाषिणो नोऽस्मान् भवन्तः प्राप्तमनोरथा भवन्त्विति वाग्व्ययमात्राद्वाङ्निर्गममात्रेण व्ययेन किं कस्मान्न कृतार्थयति पूर्णमनोरथान्करोति । कथयतेत्यर्थः । सर्वज्ञादिविशेषणत्रयेण युक्तोपि चेन्न ददाति, तस्मानास्त्यैव । यद्यभविष्यत्तर्ह्यकृतार्थयिष्यत्, न च कृतार्थयति तस्मान्नास्तीति भावः । अनेनाप्युपहासः सूचितः ॥

 इदानीं कर्ममीमांसकमतावलम्बनायोग्योपलम्भनमाह-

भविनां भावयन्दुःखं स्वकर्मजमपीश्वरः ।
स्यादकारणवैरी नः[१] कारणादपरे परे ॥ ७८ ॥

 भविनामिति ॥ भविनां संसारिणां स्वकर्मजं स्वकृतपापफलभूतं दुःखं भावयन्कुर्वन्स्वयं भवदपि भवने पुनः स्वयं प्रवर्तयन्नीश्वरो नोस्माकमकारणवैरी दायादत्वादिहेतुं विनैव शत्रुः स्यात् । अपरेन्ये पुनः कारणाद्दारक्षेत्राद्यपहारबन्धुवधादेर्वैरहेतोः (परे) वैरिणो भवन्ति । भविनां न इति वा संबन्धः। ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा।' कर्मफलदातेश्वर इति मते कर्मानुगुणं फलं भवेत् तर्हीश्वरेण कर्तव्यं न किंचिदस्ति, तादृशात्कर्मण एव दुःखोत्पत्तेः । एवंसति स चेदनुभावयति तर्ह्यस्मदादीनां द्वेष एव तेन कृतः स्यात् । तस्मात्तस्य दयालुत्वादयो गुणा गताः तस्मात्कर्मण एव प्राधान्यादीश्वरो नास्त्येवेति भावः। 'पञ्चमी' इति योगविभागात् 'कारणाद्वैरी' इति समासं कृत्वा पश्चान्नञ्समासः॥

 अन्यदप्याह-

तर्काप्रतिष्ट्या साम्यादन्योन्यस्य[२] व्यतिघ्नताम् ।
नाप्रामाण्यं मतानां स्याकेषां सत्प्रतिपक्षवत् ॥ ७९ ॥

 तर्केति ॥ प्रमाणानुग्राहकयुक्तिसंघरूपस्य तर्कस्याप्रतिष्ठयानन्ततयाऽपर्यवसानेन कृत्वा यत्साम्यं तुल्यत्वं तस्मात्तुल्यत्वाद्धेतोः सुन्दोपसुन्दन्यायेन विनिमयेनान्योन्यस्य परस्परं व्यतिघ्नतां दूषयतां केषां मतानां प्रमाणत्वेन समानानामनुमानादीनाम् । अथच-सत्त्वासत्त्वैकात्म्यनानात्म्यसेश्वरत्वानीश्वरत्वादि प्रतिपादयतां दर्शनानामप्रामाण्यं न स्यात् । अपितु-तुल्यबलत्वेन परस्परविरोधादप्रमाणत्वमेव स्यात् । किंच-सन् प्रतिपक्षो विरुद्धसाध्यसाधको हेतुर्यस्य तदनुमानं सत्प्रतिपक्षं तद्वत्तस्येवाप्रामाण्यं स्या-


  1. 'कारणवैरी न' इति पाठे काक्वा व्याख्येयम् इति सुखावबोधा
  2. 'अन्योन्यस्येति' कर्माविवक्षया
    शेषे षष्ठी । इति सुखावबोधा।'