पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
नैषधीयचरिते

चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः।
ध्रुवं दधुर्वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् ॥ ११४ ॥

 चलीकृता इति ॥ यत्र यस्मिंस्तडागे तरङ्गरिङ्गणैस्तरङ्गस्खलनैः चलीकृताश्चालिता अबाला महत्यः शैवाललतास्तासां परम्पराः समूहाः वाडवहव्यवाट् वाडवानलस्तस्यावस्थितिरवस्थानं तेन प्ररोहत्तमोऽतिशयेन प्रादुर्भूतो भूमा बाहुल्यं यस्य एवंविधो यो धूमस्तस्य भावस्तत्ता तां दधुरिति ध्रुवं शङ्के । समुद्रे वाडवानलधूमस्तिष्ठति तद्वदत्रापि । प्ररोहत्तमधूमभूमतामिति क्वचित् । तत्रं प्ररोहत्तमो धूमभूमा यासामिति । 'वहेश्च' इत्यस्य छान्दसत्वस्य प्रायिकत्वात् 'हव्यवाट्' इत्यत्र ण्विः । बहोर्भावो भूमा इति 'बहोर्लोपो भू च बहोः' इति सिद्धम् ॥

प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती।
धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता ११५

 प्रकामेति ॥ यत्प्रभवा यस्मात्प्रभव उत्पत्तिर्यस्याः सा सरोजिनी कमलिनी दिवा (दिने ) अप्सरायिता अप्सरस इवाचरिता अप्सरस्तुल्या। किंभूता--आदित्यं सूर्यमवाप्य प्रकाममतिशयेन कण्टकैः करम्बिता व्याप्ता । आमोदभरं सौगन्ध्यबाहुल्यं विवृण्वती प्रकटयन्ती । तथा-धृतः स्फुटानि विकसितानि श्रीगृहाणि कमलानि तान्येव विग्रहः शरीरं यया । अथ च एवंविधाः प्रकामं प्रकृष्टमदनमादित्यं देवं प्राप्य रोमाञ्चिता हर्षं प्रकटयन्त्यो दिवा स्वर्गेण धृतः स्फुटायाः प्रकाशमानायाः श्रियः शोभाया गृहं स्थानं विग्रहः शरीरं यासां ता अप्सरसोऽपि । आदित्यमिति 'दित्यदित्या-' इति ण्यः । अप्सरायितेति 'कर्तुः क्यङ् सलोपश्च' इति क्यङि 'ओजसोऽप्सरसः-' इत्यादिना सलोपः॥

यदम्बुपूरमतिबिम्बितायतिर्मरुत्तरङ्गैस्तरलस्तटद्रुमः ।
निमज्ज्य मैनाकमहीभृतः सतस्ततान पक्षान्धुवतः सपक्षताम् ११६

 यदिति ॥ यस्य तडागस्याम्बुन उदकस्य पूरे प्रवाहे प्रतिबिम्बिता प्रतिफलिता आयतिर्दैर्घ्यं यस्य एवंभूतस्तटद्रुमस्तीरवृक्षो निमज्यान्तर्निलीय सतो विद्यमानस्य मैनाकमहीभृतो मैनाकनाम्नः पर्वतस्य सपक्षतां समानतां पक्षसाहित्यं च ततान विस्तारयामास । मैनाक इव स्थित इत्यर्थः । किंभूतः-मरुत्तरङ्गैर्वायुचालितोर्मिभिस्तरलश्चञ्चलः। किंभूतस्य-पक्षान्धुवतः कम्पयतः।अत्र वृक्षप्रतिबिम्बः समुद्रे मैनाकस्तिष्ठति ॥ युग्मम्-

पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् ।
स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥११७॥


१ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी। २ 'अत्रोपमाश्लेषालंकारौ' इति साहित्यविद्याधरी । ३ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी। ४ 'अत्र छेकानुप्रास उपमा चालंकारः'

इति साहित्यविद्याधरी।