पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२४
नैषधीयचरि

क्यार्थनिरूपणं बुद्धिबलं प्रज्ञाबलमपेक्षते एवंभूता । यस्य यथा स्फुरति, स तथा व्याख्याति । अत एवाद्वैतवादिनः श्रुतीरभेदपरत्वेन, द्वैतवादिनस्तु भेदपरत्वेन व्याचक्षते। सा व्याख्या सुखोन्मुख्यनायाससाध्या । अथच-सुखपर्यवसायिनी । नोपेक्ष्या नानादरणीया। सैवाङ्गीकार्येत्यर्थः । स्वेच्छाचारमेव कुरुतेति भावः । एका समाना अविसंवादिनी मतिः। चातुर्वर्णादित्वात्स्वार्थे प्यञ् ॥

 त्वन्मताङ्गीकारे निरयादिप्राप्तिः स्यादित्याशङ्ख्याह-

यस्मिन्नस्सीति धीर्देहे तद्दाहे वः किमेनसा ।
कापि तत्किं फलं न स्यादात्मेतिपरसाक्षिके ॥ ५२ ॥

 यस्मिन्निति॥ यस्मिन्देहे अहमस्मि इति धीः,गौरः कृश इत्याद्याकारः प्रत्ययस्तस्य शरीरस्य दाहे सति वो युष्माकमेव एनसा पापेन किम् । अपितु पापेन निरयपातादि किंचिदपि न कार्यते । अयमाशयः-अयं देह एवात्मा, देहातिरिक्तो वा । यद्याद्यः कल्पस्तर्हि येन देहेन पापं कृतं तस्य विनष्टत्वाद्देहात्मवादिनां वः पापेन किं कर्तुं शक्यते । अपितु-न किंचिदित्यर्थः। अथ देहातिरिक्त एव देहे विनष्टेऽपि देहान्तरे देशान्तरे कालान्तरे च पुण्यपापफलानां भोक्तास्ति । तत्राप्येवं वक्तव्यम् । स किं स्वसाक्षिकः परसाक्षिको वा। नाद्यः-अहंप्रत्ययस्य देहविषयत्वेनैव सिद्धेः, तदतिरिक्तालम्बनकल्पनानवकाशात् । ततश्च 'तद्दाहे वः किमेनसा'इति पुनरायातम्। द्वितीयं दूषयति–परो वेदादिः साक्षी यस्य तस्मिन्देहान्तरे देशान्तरे कालान्तरे च फलभोक्तरि देहातिरिक्ते वेदप्रतिपादित आत्मनि तस्य पापस्य निरयादि फलं चेत् । स चेत्फलस्य भोक्ता, तर्हि आत्मति हेतोः । आत्मत्वाविशेषादिति यावत् । तस्मात्क्वाप्यात्मान्तरेऽपि तत्किं न स्यात् । अपि तु भवितव्यमेव । तेन देहेन पातके कृते तदतिरिक्तेनात्मना चेत्फलं भोक्ष्यते तर्हि देवदत्तेन पापे कृत आत्मत्वाविशेषाद्यज्ञदत्तेनापि तत्फलमुपभोक्तव्यमित्यप्यापद्यते । किंच पापफलदुःखानुभवे तस्य देहस्य नाशे तत्पातकफलं देहव्यतिरिक्ते परप्रत्ययवेद्य आत्मनि चेद्भवेत् , तथापि न दोषः । दुःखं ह्युपभुज्यमानं प्रतिकूलं भवति, उपभोक्ता चाहंकारास्पदं देहो विनष्टः, आत्मा तु नोपभोक्तेति फलसंबन्धेऽपि न दोषः । ततश्च पापका- रिणो देहस्य विनष्टत्वान्मृत्योरेव चापवर्गत्वान्न कश्चित्फलभोक्तेति । स्वेच्छाचारमेव कुरुतेति भावः । यद्वा-परश्चासौ साक्षी च परसाक्षी स एव परसाक्षिक आत्मेत्यात्मलक्षणे परे देहातिरिक्ते साक्षिणि तटस्थे चेत्तत्फलम्, तर्हि क्वापि पाषाणादौ वा तत्फलं किं न स्यात् । अपि तु स्यादेवात्मत्वाविशेषात् । तस्माद्देहातिरिक्त आत्मा नास्त्येव, देहश्च नष्टः, कस्य पापफलं स्यादिति भावः । यद्वा-क्वापि जन्मान्तरीयदेहान्तरे आत्मास्तीति पापफलं चेत्स्यात्, तर्हि परो देवदत्ताद्यात्मा साक्षी यस्य तस्मिनात्मान्तराधिष्ठिते देवदत्तादिदेहेपि । परस्य वा देवदत्तादिदेहस्य साक्षिण्यात्मनि किं न स्यात् । अपित्वविशेषात्स्यादेवेति । अलमतिप्रसङ्गेन ॥

 पुनरपि देहातिरिक्तात्मवादिनमुपहसति-

मृतः स्मरति जन्मानि मृते कर्मफलोर्मयः ।
अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्तवार्तया ॥ ५३ ॥