पितु तया तत्र भवितुं युक्तम् । यस्मात्पुरुषः तत्कर्म व्यापारं कुर्यात् , येन कर्मणा कृत्वा अन्ते कर्मावसान एव सुखमेधते । अनुभूयते पुरुषेणेत्यर्थः। जन्मान्तरे व्रतादिजन्यं सुखं संदिग्धम् ; सुरतजन्यं च सर्वस्य स्वानुभवसाक्षिकम् । तस्माच्चान्द्रायणादि सुकृतं त्यक्त्वा सुरतमेवाङ्गीकर्तव्यमिति भावः । एतेन 'मासैरष्टभिरहा च पूर्वेण वयसायुषा प्राज्ञस्तत्कर्म कुर्वीत येनान्ते सुखमेधते ॥' इत्यादि विडम्बितम् । 'दुरिते च' इति पाठे परदारगमनादावित्यर्थः । परदारगमनाद्यनन्तरमेव सुखं दृश्यते यतः ॥
बलाकुरुत पापानि सन्तु तान्यकृतानि वः । |
बलादिति ॥ भो द्विजाः यूयं पापानि परस्त्रीगमनादीनि बलादनुमतौ असत्यामपि कुरुत । तानि पापानि वः संबन्धीनि कृतान्यण्यकृतानि सन्तु । फलदायीनि मा भूवनित्यर्थः। यतः—मनुः बलेन कृतान्सर्वानन्व्यापारानकृतानेवाब्रवीत् । 'बलाद्दत्तं बलाद्भुक्तं बला[१]न्यासीकृतं च यत्' इत्यन्यार्थमपि मनुवचनं छलेनार्थान्तरपरिकल्पनया प्रकृते निदर्शयन्प्रतिवन्द्या विडम्बयति ॥
स्वागमार्थेऽपि मा स्था[२]स्मिस्तीथिका विचिकित्सवः। |
स्वागमेति ॥ भोस्तीर्थिकाः संप्रदायागतविद्याः यूयमस्मिन्पूर्वोक्तमनुवचनरूपस्वीयागमप्रतिपाद्येऽर्थे प्रमेये 'आत्मारामः स्यात्' इति श्रुत्यर्थे वा विषये विचिकित्सवः संशयालवः मा स्थ भवथ । इदं कार्य नवेति संशयः परित्याज्य इत्यर्थः । मनुना श्रुत्या वा ईदृकू कथं प्रतिपादितमित्युभयत्राप्यनादपरा वा मा भवत । तर्हि किं कार्यमित्यत आह-यूयं यं यमानन्दं परदारगमनादीच्छत, तं तं स्वच्छन्दं स्वेच्छया निःसंशयमादरेण चाचरत । आत्मारामः स्यामिति श्रुतिप्रामाण्यात्पूर्वोक्तस्मृतिप्रामाण्याच संशयं परित्यज्यादरेण यदृच्छया सुखमुपभुङ्ग्ध्वमिति भावः। अस्मदागमे निन्दापराः, तथापि स्वागमे निन्दा न युक्तेत्यपिना सूचितम् । मा निरनुबन्धकः, ततो न लुङ् । तीर्थै[३]न आगमेन चरति ठक् । सदुपाध्यायो वा तीर्थम् , तस्मादस्त्यर्थे ठन् ॥
पूर्वोक्तश्रुतिस्मृतीनामर्थमज्ञात्वा त्वयैवमुक्तं व्याख्यानमप्रमाणमित्याशङ्क्याह-
श्रुतिस्मृत्यर्थबोधेषु क्वैकमात्यं महाधियाम् । |
श्रुतीति ॥ श्रुतिस्मृत्यर्थबोधे[४] षु महाधियामप्यैकमत्यमविसंवादः क्वास्ति, अपितुसर्वत्रापि विसंवाद एव । बुद्धिबलेन परस्परविजयात् । एवं सति व्याख्या पदार्थवा-