पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२२
नैषधीयचरिते

 'संदिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः' इत्यादि प्रतिवन्द्या दूषयति-

संदेहेप्यन्यदेहाप्तेर्विवज्यं वृजिनं यदि।
त्यजत श्रोत्रियाः सत्रं हिंसादूषणसंशयात् ॥ ४६ ॥

 संदेह इति ॥ तत्र तत्र व्यभिचरितत्वाच्छ्रतिप्रामाण्यानिश्चयात् , 'पापं न कार्यं जन्मान्तरे निरयादिदुःखभयात्' इत्येके वदन्ति, अन्ये च येन कृतं स तु दग्धः अन्यदेहप्राप्तिस्तस्य स्यादित्यत्र का प्रत्याशा, इति वादिविप्रतिपत्तेश्च, अन्यदेहाप्तेः देहान्तरप्राप्तेः संदेहे सत्यपि पाक्षिकोऽपि दोषः परिहर्तव्य इति न्यायेन यदि देहान्तरं स्यात् , हि पापफलं दुःखमनुभूयेतेति बुद्ध्या यदि वृजिनं पापं वर्ज्यं सर्वथा न कार्यं तर्हि हे श्रोत्रियाश्छन्दोध्यायिनो वसिष्ठादयो यूयं सत्रमनेककर्तृकं यागं मैव कृढ्वम् । कुतः- पशुहिंसायाः संबन्धिनो दोषस्य संशयात्संदेहात् । 'न हिंस्यात्सर्वा भूतानि' इति 'अहिंसा परमो धर्मः' इत्यादि श्रुतिस्मृतिवशाद्यागेपि हिंसा न कार्यत्येके । विधिबलादशङ्कितपापोत्पत्तिः सा कार्यवेत्यन्ये इति संदेहे यागीयपशुहिंसा चेत्पापहेतुः स्यात्, तदा नेष्टप्राप्तिः किंत्वनिष्टमेव स्यादिति 'पाक्षिकोऽपि दोषः परिहरणीयः' इत्यनेनैव न्यायेन यागमपि त्यजत । न चेदेवं पापमपि कुरुतेति भावः । 'संश्रयात्' इति पाठे संबन्धादित्यर्थः । 'कलुषं वृजिन-' इत्यमरः॥

 'त्याज्यमेवाशुभं बुधैः' इत्यपि सव्यभिचारमाह-

यस्त्रिवेदीविदां वन्द्यः स व्यासोपि जजल्प वः।
रामाया जातकामायाः प्रशस्ता हस्तधारणा ॥४७॥

 य इति ॥ यः त्रिवेदीविदां वेदत्रयवेदिनां वो युष्माकं वन्द्यो नमस्करणीयः स व्यासोऽपि इति भारतादौ जजल्प उक्तवान् । इति किम्-जातकामायाः कामार्ताया रिरंसो रामाया अज्ञातकुलशीलाया अपि रमण्या हस्तधारणा पाणिग्रहणमङ्गीकरणं च प्रशस्ता युक्तैव । न केवलं वाल्मीकिः, किं तु व्यासोपीत्यपिशब्दार्थः । तद्वचनं पूज्यत्वाद्भवद्भिरङ्गीकर्तव्यमित्यपि सूच्यते । 'स्मरारतां विह्वलां दीनां यो न कामयते स्त्रियम्। ब्रह्महा स तु विज्ञेयो व्यासो वचनमब्रवीत् ॥' इत्याद्यर्जुनतीर्थयात्रायां नागाङ्गनासंबन्धावसरे, उर्वश्यादिप्रसङ्गे स्वर्गगमनावसरे च भारतादौ । रामायणे च सूर्पणखाद्युक्तौ प्रसिद्धम् । ततश्च पापं वर्ज्यम् , कार्यमित्यप्युच्यते । उभयथापि दोष इति भावः । वेदविदामिति, 'कृत्यानाम्-' इति षष्ठी॥

 युक्त्यन्तरेण पूर्वोक्तमाह-

सुकृते वः कथं श्रद्धा सुरते च कथं न सा।
तत्कर्म पुरुषः कुर्यायेनान्ने सुखमेधते ॥ ४८ ॥

 सुकृत इति ॥ सुकृते चान्द्रायणादौ वो युष्माकं कथं केन हेतुना श्रद्धा आस्तिकता। अपित्वनुचितमेतत् । सा च श्रद्धा सुरते कामिनीरतिविषये कथं न किमिति न । अ-