पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
प्रथमः सर्गः

किंभूतानाम्-अलिभिर्भ्रमरैः श्यामलिता श्यामलीकृता उदरश्रीमध्यशोभा येषाम् । किंभूतं कुलम्-तमःसमच्छायोऽन्धकारसदृशशोभो यः कलङ्कस्तेन संकुलं व्याप्तम् । श्रियामिति भाषितपुंस्कत्वात्पुंवत् ॥

रथाङ्गभाजा कमलानुषङ्गिणा शिलीमुखस्तोमसखेन शार्ङ्गिणा ।
सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषाहिभुवान्वयायि यः॥१११॥

 रथेति ॥ यस्तडागः सरोजिनी कमलिनी तस्याः स्तम्बकदम्बो गुल्मसमूहस्तस्य कैतवान्मिषात्कमलिनीगुल्मसमूहेनैव शार्ङ्गिणा श्रीकृष्णेनान्वयायि अनुसृतः । कृष्णो हि समुद्रे शेते । कदम्बपदप्रयोगसामर्थ्यात् । शार्ङ्गिणेति जातावेकवचनम् । किंभूतेन- रथाङ्गं चक्रं, चक्रवाकश्च तद्भाजा । तथा-कमला लक्ष्मीः, कमलमुत्पलं तया, तेन च सहानुषङ्गः संबन्धोऽस्यास्तीति तेन। तथा-शिलीमुखस्तोमो भ्रमरसमूहस्तत्सखेन तत्सदृशेन तद्वच्छ्यामेन तत्सहितेन च, बाणसमूहसहितेन वा । तथा-मृणालमिव शेषाहिः स एव भूः शयनस्थानं यस्य मृणालान्येव शेषाहिः भूरुत्पत्तिस्थानं यस्य । कमलानुषङ्गिणेत्यत्र इनिः॥

तरङ्गिणीरङ्कजुषः खवल्लभास्तरङ्गरेखा बिभरांबभूव यः ।
दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाकुरसंचयश्च यः ॥ ११२ ॥

 तरङ्गिणीरिति ॥ यस्तडागः तरङ्गरेखास्तरङ्गमाला एव तरङ्गिणीनदीर्बिभरांबभूव । व्यस्तरूपकम् । किंभूताः-अङ्कजुषो मध्यसेविनीरुत्सङ्गसेविनीश्च । तथा-स्ववल्लभाः स्वप्रियाः, प्राणेश्वरीश्च । यश्च तडागः दरोद्गतैरीषदुद्भूतैः कोकनदौधा रक्तोत्पलसमूहास्तेषां कोरकैर्मुकुलैः कृत्वा धृतः प्रवालाङ्कुरसंचयो विद्रुमाङ्कुरसमूहो येन (तादृगू- अस्ति)। समुद्रे नद्यः प्रविशन्ति, विद्रुमाङ्कुराश्च बहवः सन्ति, तथात्रापीति समुद्रसाम्यम् ॥

महीयसः पङ्कजमण्डलस्य यच्छलेन गौरस्य च मेचकस्य च ।
नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन्विधुकालकूटयोः ११३

 महीयस इति॥ यस्तडागो नलेन महीयसो महत्तरस्य गौरस्य श्वेतस्य तथा मेचकस्य नीलस्य पङ्कजमण्डलस्य कमलसमूहस्य छलेन व्याजेन सलिले निलीनयोर्निमग्नयोर्विधुकालकूटयोश्चन्द्रविषयोस्त्विषं दीप्तिं विमुञ्चन्नुद्गिरन्निव मेने शङ्कितः । समुद्रे यथा चन्द्रो विषं च तिष्ठति तथात्रापीति । विधुरमृतमिति केचित् ॥


. १ 'अत्र छलशब्देन पुण्डरीकेषु विषयापह्नवेन चन्द्रत्वाभेदादपह्नवभेदः व्यतिरेकश्च पूर्ववत्' इति जीवातुः। 'अत्रानुप्रासोऽपह्नुतिश्चालंकारः' इति साहित्यविद्याधरी । २ 'अत्रापि कैतवशब्देन स्तम्बत्वमपह्नुत्य शार्ङ्गित्वारोपादपह्नवभेदः' इति जीवातुः। अत्र श्लेषोपमापह्नुतयोऽलंकाराः' इति साहित्यविद्याधरी। ३ 'अत्रानुप्रासरूपकापह्नुतीनां संकरः' इति साहित्यविद्याधरी । अत्रापि 'कोकनदकोरकाणां विद्रुमत्वेन रूपणाद्रूपकालंकारः' इति जीवातुः। ४ 'अत्र छलेन विमुञ्चन्निव, इति सापह्नवोत्प्रेक्षा' इति जीवातुः।