पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२०
नैषधीयचरिते

फलम् , तेन क्षामं रहितमेकादश्युपवासादिव्रतं नियमो यस्य । मदनेन कृत्वा क्षीणं निफलं व्रतं यस्य वा । तजगत्सर्वोपि लोकः मोहाद्विचाराभावात् । वृथा इति यावत् । न अश्नाति न भुङ्क्ते एकादश्यादौ, वृथैव च स्नाति तीर्थादौ, हा कष्टम् । स्वयं शुचित्वेऽपि स्त्रीव्यभिचारादिदोषसंसर्गात् , स्त्रीणां शुचित्वेऽपि दुष्टसंसर्गात्, सर्वेषां पातकित्वादुपवासादि वृथैव करोति । केवलं प्रयास एव तस्य भवतीत्यर्थः । तस्मात्स्वेच्छाचार एव कार्य इति भावः । चार्वाकमते विधिनिषेधाभावान्नैष दोष इत्यर्थः । तेषां सदोषत्वाज्जातिरपि सदोषैवेत्युक्तं भवति । अभिलाषेण कृत्वा नष्टं व्रतं यस्य । एकादश्यां भोजनाभिलाषे सत्यपि न भुङ्क्ते, अभिलाषे सत्येवा(त्यप्य)मावास्यादौ स्त्रीनिवृत्तिः, स्नाति च तीर्थादौ, वृथैव कामोपहतत्वादित्यर्थः । बहिः शोधयन्तु, अन्तरशुद्धम् । क्षामेति, 'क्षायो मः॥

ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् ।
स्मरान्धत्वाविशेषेपि तथा नरमरक्षतः ॥ ४२ ॥

ईययेति ॥ ईय॑यासहनत्वमात्रेण नारी रक्षतस्तासां परपुरुषदर्शनमपि कर्तुमप्रय- च्छतः कुलस्थितिः ब्राह्मण्यादिजातेरसांकर्येणावस्थानं तद्रूपेण दम्भेन चरन्ति ये तान्पुरुषान्स्त्रीरक्षण एव कुलस्थितिं मन्यमानान्धिक्ते निन्द्याः। निन्द्यत्वे दाम्भिकत्वमेव हेतुः। किंभूतान्-स्त्रियः पुरुषाश्च विवेकशून्या यतः, अतः स्मरान्धत्वस्याविशेष साधारण्ये सत्यपि तथा नारीवन्निर्बन्धेन नरमरक्षतः परदारसङ्गादनिवारयतः । नहि जातिसंकरो नारीणामेव व्यभिचारेण यतः, ता एव रक्षणीयाः। किंतु पुरुषाणामपि व्यभिचारेण । यदि रक्षणीयम्, तर्हि द्वयमपि । नचैवं क्रियते । तस्मादन्यतरस्यैव रक्षणे जातिसंकरस्य तादवस्थ्यात्कुलस्थित्यभावान्नारीमात्ररक्षणं तेषां दम्भ एवेत्यर्थः। तस्मादीर्प्यां त्यक्त्वा नरस्य वेश्यान्तरादाविव, स्त्रीणामपि नरान्तरे प्रवृत्तिप्रतिषेधं मा कृढ्वमिति भावः। इर्श्यया इत्यनेन ईयॆवात्र हेतुर्नतु धर्म इति सूचितम् । अथ च स्मरान्धत्वाविशेपेऽपि नारी रक्षतोऽनेकपतिभ्यः, किंवेकमेकस्याः कुर्वतः । नरंतु स्त्रीवदरक्षतः । स्त्रिया यथा एक एव पतिः तथा नरस्यैकैव स्त्रीति न, किंतु बह्वीः कुर्वन्ति तस्मानिन्द्यास्ते। अत्रापीर्ष्यैव हेतुः॥

परदारनिवृत्तिर्या सोऽयं स्वयमनाहतः ।
अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना ॥ ४३ ॥

 परेति ॥ परदारेभ्यो या निवृत्तिः ताः सादरं न द्रष्टव्याः, किं पुनः स्प्रष्टव्याः' इत्येतद्र्थप्रतिपादकं शास्त्रम्, सोऽयं परवञ्चनरूपो दम्भः अहल्यया गौतमस्त्रिया सह केलिः कामक्रीडा तत्र लोलेन तत्परेण दम्भोलिपाणिनेन्द्रेण स्वयमात्मनैवानादृत उपेक्षितः। परदारगमनप्रायश्चित्तविभागोप्येतेन दूषितः । अन्यं प्रति तन्न कार्यमित्युपदिशन्ति, स्वयं तु तदेव कुर्वन्तीत्युपहासोपि सूचितः। अहल्यासंभोगलम्पट इन्द्र एवादाम्भिकः। अन्ये परदारपराङ्मुखाः सर्वेपि दाम्भिका एवेति भावः । वज्रहस्तत्वात्परदारमर्शनं कृतवान् । तस्मादयं शास्त्रीयनिषेधो न भवति । किंत्वशक्तत्वाद्दम्भ एवेत्यपि ॥