पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७११
सप्तदशः सर्गः।


दीनां च संभोगार्थ तृणमिवानायासत्याज्याः प्राणा येषां ते । अत एव-पृष्ठस्थीकृते पश्चात्त्कृते परित्यक्ते भीहियौ यैस्ते । वधभयं पापभयं, लोकलज्जा च, तत्सर्वं यैस्त्यक्तं ते तादृशा निर्भया निर्लज्जाश्चेत्यर्थः। तथा-अप्राप्याभेद्यस्त्रीभेदनकृतप्रतिज्ञाभिः शम्भलीभिः कुट्टनीभिर्भुक्तं सर्वस्वं येषां ते । सन्तीति शेषः । पारिपार्श्विकः, पूर्ववत् ॥

बिभर्ति लोकजिद्भावं बुद्धस्य स्पर्धयेव यः।
यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः ॥१६॥

 बिभर्तीति ॥ यः स्मरो लोकाञ्जयतीति लोकजित्तस्य भावं सर्वजनविजयितां बिभर्ति। उत्प्रेक्षते-बुद्धस्य स्पर्धयेव । जिनो हि मारजिदिति स्वशत्रुस्पर्धयेव 'मारजिल्लोकजिज्जिनः' इत्यभिधानाल्लोकजित्पदवाच्यत्वं बिभर्तीत्यर्थः। तथा–यस्याशरीरिणः शरीररहितस्य दग्धदेहत्वादनङ्गस्यात्र लोके कामिनां मनोविकारं प्रति मैथुनद्वारा सर्वजना- न्प्रति वा कर्तृत्वं स्रष्ट्टत्वम् । अत्राप्युत्प्रेक्षते-विश्वकर्तुरीशस्य तुलयेव स्पर्धयेव । ईश्वरो हि स्मरहरत्वात्स्मरस्य शत्रुः, तस्मात्तत्स्पर्धयेव तस्याशरीरकर्तृत्वं स्वयमविनयेनाङ्गीकृतमित्यर्थः । यथा-अशरीरिण एवेश्वरस्य कर्तृत्वमिति न्यायविदः, तथा-अयमप्यनङ्ग एव सन्कार्यकारीत्यर्थः। जिनमहेशाभ्यां जितोऽपि लोकजित्त्वेनाशरीरकर्तृत्वेन च यः पुनस्ताभ्यां समः। एवंविधोऽतिबलवानिति भावः ॥

ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् ।
अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥ १७ ॥

 ईश्वरस्येति ॥ अस्त्रीकृताः शस्त्रीकृताः स्त्रियो येन एवंविधो यः काम ईश्वरस्य इमां सृष्टिमीश्वरेण निर्मितं कृत्स्नं जगदाकुलयन्नन्यवृत्ति चेतः स्ववशं कुर्वन् । अथ च- पीडयन् । अस्ति । उत्प्रेक्षते-तस्येश्वरस्य देहदाहजनितं वैरं स्मरंश्चिन्तयन्निव । देहदाहो ममानेन कृतः, तस्मादेतेन रचितमेतदीयं जगत्पीडयिष्यामीति बुद्ध्येश्वरस्य किंचिदपकर्तुमसमर्थः,:, तदा जगत्स्त्रीरूपेण शस्त्रेण पीडयंस्तेन सह स्पर्धते [१]इत्यर्थः । प्रत्यनीकाग्रे आयुधनिष्कृता स्त्री येनेति । स्त्रिया अस्त्रीत्वकरणे विरोधाभासश्च । अथवाया ईश्वरेण स्त्री कृता सानेनास्त्री कृतेत्यपि प्रतिकूलाचरणेनेश्वरेण सह स्पर्धते । अथ वा-ईश्वरेणापि त्रिपुरवधे मोहिनी स्त्री शस्त्रीकृतोननापि स्त्री शस्त्रीकृतेत्येकविषयतया स्पर्धा । शक्तिरूपो हि श्रीविष्णुस्त्रिपुरवधे भगवता शरतां नीत इत्यागमः । 'अनुस्मरन्' पाठे लुप्तोत्प्रेक्षा । सृष्टिशब्दो नियतस्त्रीलिङ्गः। तत्परामर्शाच्च इमामिति निर्देशः। अस्त्रीकृतेत्यत्रानस्त्रमस्त्रं कृतास्त्रीकृतेति 'च्वौ' इतीकारः । पक्षे न स्त्री अस्त्री, अस्त्रीकृता स्त्री येनेति समासः। 'नवृतश्च' इति कप् । कुलकम् ॥

चक्रे शकादिनेत्राणां स्मरः पीतनलश्रियाम् ।
अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम् ॥ १८॥

 चक्र इति ॥ स्मरः कामः पीतनलश्रियां सादरदृष्टनलशोभानां शक्रादिनेत्राणामि-


  1. इत्यर्थात्प्रत्यनीकम् । आयुधीकृता स्त्री येनेति स्त्रिया अस्त्रीत्व'इति पाठः प्रतिभाति ॥