पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते


तामभ्यस्ता विद्यामिव । दत्तापि विद्या चित्ताद्यथा नोपरमति, तथा तस्मै दत्तापि सा सगुणतया तेषां चित्तानोपरतेति ॥

कान्तिमन्ति विमानानि भेजिरे भासुराः सुराः ।
स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः ॥ ३ ॥

 कान्तीति ॥ भासुरास्तेजोरूपाः सुराः कान्तिमन्ति रत्नैर्दीप्राणि विमानानि यदृच्छया गामिनो रथान्भेजिर आरुरुहुः । के कानीव-विवस्वतः सूर्यस्य भासुराः प्रतिबिम्बाः स्फटिकाद्रेः कैलासस्य तटानीव । प्रतितटं प्रतिफलितत्वात्प्रतिबिम्बानां बहुत्वम् । भासुराः. भञ्जभास-' इति घुरच् ॥

जवाज्जातेन वातेन बलाकृष्टबलाहकैः।
श्वसनात्स्वस्य शीघ्रत्वं रथैरेषामिवाकथि॥४॥

 जवादिति ॥ जवानिजवेगाज्जातेन वातेन कृत्वा बलादाकृष्टाः सहचरीकृता मेघा यैरेषां देवानां रथैः श्वसनाद्वायोः सकाशात्स्वस्थात्मनः शीघ्रगामित्वं द्रणामग्रेऽक[१] थीव कथितमिव । आकृष्टबलाहकस्य वायोः पश्चाद्गामित्वात्पुरश्चलितानां रथानां शीघ्रत्वमित्यर्थः । शीघ्रशब्दोऽत्र धर्मिवचनः । वेगजेन वातेन गमनेनेति वा । वाधातोर्भावे क्तः। श्वसनात्, ‘पञ्चमी विभक्ते' इति पञ्चमी ॥

क्रमाद्दवीयसां तेषां तदानीं समदृश्यत ।
स्पष्टमष्टगुणैश्वर्यात्पर्यवस्यन्निवाणिमा ॥ ५॥

 क्रमादिति ॥ क्रमाद्गमनाद्दवीयसां दूरतराणां तेषां तदानीमणिमाणुत्वं स्पष्टं प्रकटं समदृश्यत । किंभूत इव-अष्टानां गुणानामणिमादीनामैश्वर्यादाधिपत्यात्पर्यवस्यन्निव। पृथग्भूत इव । सर्वेभ्यो महिमादिभ्यो गुणेभ्यः पृथग्भूतत्वादिव स्पष्टं दृष्ट इत्यर्थः। स्थूलमपि वस्तु दूरत्वात्सूक्ष्मं दृश्यते । तेषामष्टौ गुणा विद्यन्ते तन्मध्येऽणिमैव तस्मिन्समये स्पष्टो दृष्टः, नत्वन्य इत्यर्थः । तस्मिन्काले पर्यवस्यन्स्फुटीभवन्निति वा । स्पष्टमुत्प्रेक्षे । तेषां रथानामिति वा । देवानामष्टगुणैश्वर्यात्तत्संबन्धाद्रथेष्वप्यणिमा समागत इति व्याख्येयम् । वीयसामतितरां दूराणामीयसुनि 'स्थूलदूर-' इति परयणादिलोपे पूर्वस्य गुणः । अणिमा पृथ्वादिः ॥

ततान विद्युता तेषां रथे पीतपताकताम् ।
लब्धकेतुशिखोल्लेखा लेखा जलमुचः क्वचित् ॥ ६ ॥

 ततानेति ॥ क्वचित्कस्मिंश्चिदाकाशप्रदेशे लब्धः केतुशिखया ध्वजाग्रेणोल्लेखो योगो यया। तत्संबन्धात्कृतविद्युत्प्राकट्येति यावत् । एवंविधा जलमुचो मेघस्य लेखा पङ्क्ति--


  1. "मित्त्वाद्ध्रस्वत्वम्' इति जीवातुस्तु निर्मूला । अदन्तत्वादेव वृद्धेरप्राप्तेः ।