पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०७
सप्तदशः सर्गः

द्भिः सरस्वतीजाग्रदधिष्ठानकाश्मीरदेशोद्भवैरपि विद्वद्भिः परीक्षापूर्व महिते पूजिते । दोषलेशेनापि रहिते सर्वगुणपूर्णे। तथा-तद्भुवि तस्माच्छ्रीहर्षाद्भवतीति तद्भु । तस्माद्भूरुत्पत्तिर्यस्यैवंविधे वा । 'नैषधेश-' इति पाठे नैषधश्चासावीशश्चेति व्याख्येयम् ।काश्मीरैरिति पूजार्थक्तयोगे 'क्तस्य च वर्तमाने' इति षष्ठीविधानात्तृतीया चिन्त्या। 'पूजितो यः सुरैरपि इत्यादिशिष्टप्रयोगदर्शनाद् 'वर्तमानेर्थे विहितस्य क्तस्य योगे षष्ठी भवति,चकारात्प्रयोजनानुरोधेनान्यापि' (इति) सूत्रार्थं निर्वर्ण्य, चतुर्थ्यर्थे बहुलं छन्दसि' इत्यतो बहुलग्रहणं वानुवर्त्य, काश्मीरैः करणभूतैः, महः पूजा संजातास्येति महित इति तारकादेराकृतिगणत्वात्क्त्वान्तत्वाभावं वा संपाद्य, क्तान्तत्वेपि 'कलहंसरागमहित' इत्यादि भट्टिप्रयोगे समासदर्शनात् 'मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्भूतेपि शिष्टप्रयोगानुसारेण क्तप्रत्ययमङ्गीकृत्य, 'क्तस्य च वर्तमाने' इति षष्ठीप्राप्त्यभावात्कर्तरि तृतीयैवेति वा यथाकथंचित्समर्थनीयम् । चतुर्दशतयीमिति 'संख्याया अवयवे-' इति तयपि 'डिड्ढाणञ्-' इति ङीप् । विद्यां विद्भिः 'न लोका-' इति षष्ठीनिषेधः । तद्भुवि, भाषितपुंस्कत्वान्नुमभावः । षोडशः पूर्ववत् ॥

इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे षोडशः सर्गः॥

सप्तदशः सर्गः।

अथारभ्य वृथामायं धरित्रीधावनश्रमम् ।
सुराः सरस्वदुल्लोललीला जग्मुर्यथागतम् ॥१॥

 अथेति ॥ अथ स्वर्गगमनचिन्तनानन्तरं धरित्रीं प्रति धावनेन जनितं प्रयासं वृथेव वृथाप्रायं व्यर्थमिवारभ्य विधायागाधत्वेनानुपलक्षितहर्षविषादतया । अथ च-तटभूमिं प्रति निष्प्रयोजनभावगमनेन ततः पुनर्यथागतं व्यावर्तनेन च । सरस्वतःसमुद्रस्योल्लोलास्तरङ्गास्तद्वल्लीला येषां तत्तुल्याः सुरा आगतमनतिक्रम्य यथागतं स्वर्गं जग्मुः। भैमीमप्राप्यैव जग्मुरित्यर्थः। भैम्यलाभाच्छ्रमस्य वैयर्थ्यम् । नलभैमीवरदानद्वारात्मगौरवरक्षणात्प्रायशब्दः प्रायोजि, न तु वृथैवेत्युक्तम् । वृथा वृथात्वं प्रायते प्राप्नोति वा वृथाप्रायम् । यथागतमव्ययीभावः । यथा आगतं तथा जग्मुरिति वा ॥

 तदेवाह-

भैमीं पत्ये भुवस्तस्मै चिरं चिते धृतामपि ।
विद्यामिव विनीताय न विषेदुः प्रदाय ते ॥२॥

 भैमीति ॥ ते देवाश्चिरं चित्ते धृतामपि भैमी तस्मै भुवः पत्ये नलाय प्रदाय दत्त्वा न विषेदुः पश्चात्तापं न प्राप्ता इत्यर्थः । कसै कामिव-विनीताय शिष्याय चिरं चित्ते धृ-