पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
प्रथमः सर्गः

 इतीति ॥ असौ नलः इति पूर्वोक्तप्रकारेण वनमटन्परिभ्रमन्सन् बहिश्चरं वाह्यमामोदभरं सौरभातिशयमविन्दत प्राप । विदर्भसुभ्रूर्भैमी तस्या विरहेणान्तरमामोदभरं हर्षातिशयं न लेभे । 'बहिः परम्' इति क्वचित्पाठः । तत्र परं केवलम् । किंभूतं वनम्- इष्टगन्धाढ्यमिष्टेनाभीष्टेन गन्धेन सौरभेणाढ्यं समृद्धम् । किंभूतोऽसौ-पिकोपगीतोऽपि । तथा -शुकस्तुतोऽपि । 'आमोदो हर्षगन्धयोः' इति विश्वः॥

करेण मीनं निजकेतनं दधद्द्रुमालवालाम्बुनिवेशशङ्कया ।
व्यतर्कि सर्वर्तुघने वने मधुं स मित्रमत्रानुसरन्निव स्मरः ॥१०५॥

 करेणेति ॥ स नलः स्मर इव व्यतर्कि । लोकैरिति शेषः । किंभूतः स्मरः-सर्वे च ते ऋतवश्च सर्वर्तवस्तैर्घने संपूर्णेऽत्रास्मिन्वने मित्रं सहायं मधुं वसन्तमनुसरन्मृगयमाणः। निजकेतनं चक्रवर्तिचिह्नं ध्वजरूपं मीनं लक्षणभूतरेखारूपमत्स्यं द्रुमाणामालवालेष्वम्बु तस्मिन्निवेशशङ्कया करेण दधत् धारयन् । दधदिति 'नाभ्यस्तात्-' इति नुम्निषेधः । आलूयते खन्यत इत्यालवालम् । औणादिक आलच्प्रत्ययः॥

लताबलालास्यकलागुरुस्तरुप्रसूनगन्धात्करपश्यताहरः।
असेवतामुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥१०६॥

 लतेति ॥ वनानिलोऽमुं नलमसेवत । किंभूतः-लतारूपा अबलास्तासां लास्यकला नृत्यविद्या तस्या गुरुरध्यापकः । तथा तरूणां प्रसूनानि पुष्पाणि तेषां गन्धोत्करस्य गन्धसमूहस्य पश्यतोहरश्चौरः । तथा-मधु पुष्परसस्तल्लक्षणे गन्धवारिणि गन्धोदके प्रणीतं कृतं लीलाप्लवनं जलक्रीडा येन । मधुगन्धाख्यं नलसर इति केचित् । क्रमेण विशेषणत्रयेण मन्दत्वसुगन्धत्वशीतलत्वानि सूच्यन्ते । एवंविधो वायुः कार्यसिद्धेः सूचकः । अन्योऽप्येवंविधः पीठमर्दादिभिः परिचारको नायक सेवते । पश्यतोहर इति 'षष्ठी चानादरे' इति षष्ठ्या 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' इत्यलुक् ॥

अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् ।
निलीय तस्मिन्निव सन्नपांनिधिर्वने तडाको ददृशेऽवनीभुजा १०७

 अथेति ॥ अथानन्तरमवनीभुजा राज्ञा नलेन स तडागोऽपांनिधिरिव समुद्र इव ददृशे । लुप्तोत्प्रेक्षा। किंभूतः-चिराद्बहुकालेनोच्चितं वृद्धिं प्रापितम्, तथा-चिरत्नैश्चिरंतनै रत्नैरैरावतादिभिरधिकम् । पूर्वं तान्यसहायान्येवासन्, इदानीं तु तान्येव बहूनि जातानि तेभ्योऽधिकं वा । स्वं धनं मन्थनाद्भयेनादाय गृहीत्वा तस्मिन्वने निलीय तडागरूपेणैव तिरोहितीभूय निवसन् । समुद्रोपमयोदकबाहुल्यं व्यज्यते । तस्मिन्वने सन् विद्यमान इति पक्षे साक्षादुत्प्रेक्षा । अन्योऽपि धनी राजादिपीडनाद्भयेन सर्वस्वं


 १ 'अत्रोक्तनिमित्तविशेषोक्तिरलंकारः' इति साहित्यविद्याधरी। २ 'असौ मीनः पानीये प्रवेक्ष्यतीति शङ्कया' इति सुखावबोधा। ३ 'अत्रानुप्रासोत्प्रेक्षालंकारौ' इति साहित्यविद्याधरी । ४ 'अत्रानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी ।