पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७००
नैषधीयचरिते

अमीषु तथ्यानृतरत्नजातयोर्व[१]राटराट्चारुनितान्तचारुणोः ।
स्वयं गृहाणैकमिहेत्युदीर्य तद्वयं ददौ शेषजिघृक्षवे हसन ॥१११॥

 अमीष्विति ॥ वराटराट् राजा दमो वा क्रमेण चारु सुन्दरं नितान्तचार्वतिसुन्दरं च तयोरिहैतयोस्तथ्यानृतयोः सत्यासत्ययो रत्नजातयोर्मध्ये एकं तव प्रियं रत्नजातं त्वं स्वयमेव गृहाणेति अमीषु वारयात्रिकेषु विषये उदीर्य कृत्रिमत्वादतिरमणीयकान्तिविशेषमलीकरत्नजातं जिघृक्षवे ग्रहीतुमिच्छवे वारयात्रिकाय हसंस्तदज्ञानहेतोः किंचिद्धास्यं कुर्वंस्तयोः सत्यासत्ययो रत्नजातयोर्द्वयं युगं तद्रूपं वा द्वयं ददौ । अमीषु मध्ये शेषजिघृक्षवे इति वा । इह द्वयोर्मध्ये शेषजिघृक्षवे इति वा । शेषजिघृक्षवे 'द्वितीया' इति योगविभागात्समासः॥

इति ट्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः
द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि ॥ ११२ ॥

 इतीति ॥ इति पूर्वोक्तप्रकारेण द्विकृत्वो द्विवारं दिवा रात्रौ च शुच्यदोषं मृष्टं स्वादु च भोजिनां भुञ्जानानां तेषां वारयात्रिकाणां कतिचित्पञ्चषाणि दिनानि मुदा ययुः । पञ्चषाणि दिनानि सहर्षास्तत्रोषुरित्यर्थः। किंभूतानाम्-निशि द्विः द्वौ वारावष्टौ द्विरष्टाौ षोडश संवत्सरा यासां ताः वारस्य सङ्घस्य सुन्दर्यो वेश्यादास्यादयः तासां परीष्टिभिचुम्बनादिसेवाभिस्तुष्टिं संतोषमुपेयुषां प्राप्तवताम् । 'द्विरष्ट' इतिवत्सुचः कृत्वसुचो बाधकत्वात् 'द्विः' इति प्राप्ते 'द्विकृत्वः' इत्यत्र 'अपवादविषये क्वचिदुत्सर्गस्यापि समावेशः' इति परिभाषया यथाकथंचित्परिहर्तव्यम् ॥

उवास वैदर्भगृहेषु पञ्चषा निशाः कृशाङ्गी परिणीय तां नलः ।
अथ प्रतस्थे निषधान्सहानया रथेन वार्ष्णेयगृहीतरश्मिना ॥ ११३ ॥

 उवासेति ॥ नलः कृशाङ्गी तां परिणीय वैदर्भगृहेषु पञ्च षड् वा प्रमाणमासां ता निशा उवास । पञ्चषाणि दिनानि तत्र स्थितवानित्यर्थः । अथ सप्तमे दिनेऽनया भैम्या सह रथेन निषधान्प्रतस्थे । किंभूतेन-वार्ष्णेयनाम्ना सारथिना गृहीता रश्मयो यस्य। पञ्चषाः 'संख्ययाऽव्यया-' इति समासे 'बहुव्रीहौ संख्येये-' इति डच् , टिलोपः। निशाः । अत्यन्तसंयोगे द्वितीया ॥

परस्य न स्पष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन
रथे स भैमीं स्वयमध्यरूरुहन्न तन्किलाश्लिक्षदिमां जनेक्षितः ॥ ११४ ॥

 परस्येति ॥ इति ब्रुवन्स नलो भैमीं स्वयमात्मनैव रथेऽध्यरूरुहद्ध्यारोपयामास । इति किम्-इमां पतिव्रतां भैमीं स्पष्टुं स्पर्शनेन्द्रियविषयीकर्तु परस्य मदन्यस्य नाधि.


  1. 'विदर्भराट् इति जीवातुसुखावबोधासंमतः पाठः ।