पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९८
नषधीयचरिते


खीसमूहे वैमुख्यमिते सति तासां सखीनां काचित्सखी तदन्तर्वर्तिनी, अन्या वा, शार्करीं पुत्रिकां ददौ । शर्करापुत्रिकापरिवेषणमिषेण अहं त्वां भजामीति स्वदानसंज्ञानमकरोदिति भावः । इति वा । शार्करीमिति विकारप्रत्ययः । पुत्रिका 'पुत्रात्कृत्रिमे' इति कन् ॥

निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्ततृप्तिभिः ।
अशक्नुवद्भिर्बहुभुक्त्तवतया यदुज्झिता व्यञ्जनपुञ्जराशयः ॥ १०५ ॥

 निरीक्ष्येति ॥ बहुभुक्तवत्तयात्याहारेणाशक्नुवद्भिर्भोक्तुमसमर्थेरेभिर्वारयात्रिकैर्यद्यस्मायञ्जनपुञ्जानां राशयः परम्परा उज्झितास्त्यक्ताः, तस्माद्रम्याः परिवेषिका निरीक्ष्यावाप्ततृप्तिभिर्गतबुभुक्षैरेतैर्भुक्तमेव नेति ध्रुवमहं मन्ये । यावत्क्षिप्तं तावतस्तथैव दर्शनादियमुत्प्रेक्षा । एता निरीक्ष्यावाप्ततृप्तिभिरेतैर्धृवं निश्चितं नैव भुक्तमिति वा । यथा लोको मन्यत इति शेषः । तथा व्यञ्जनपुञ्जपरम्परास्त्यक्ताः, यथैभिर्न भुक्तमिति लोको मन्यत इत्यर्थ इति वा ॥

पृथक्प्रकारेङ्गितशंसिताशयो युवा ययोदासि तयापि तापितः ।
ततो निराशः परिभावयन्परामये तयातोषि सरोषयैव सः ॥ १०६ ॥

 पृथगिति ॥ पृथक्प्रकारैर्नानाविधैरिङ्गितैश्चेष्टितैः कृत्वा शंसितः कथित आशयोऽभिप्रायो येन स युवा यया स्त्रिया उदास्युदासीनः प्रतीङ्गितेन न संभावितः, तया तापितो व्यथितः । उदासीनो हि दुःखं न जनयति । अनयापि तु तादृश्यापि दुःखं जनितमिति विरोधार्थोऽपिशब्दः। ततोऽनन्तरं तस्यां निराशः, तस्याः सकाशान्निराशो निर्गताभिलाषः सन् परां तदन्यां परिभावयन्निङ्गितेनानुकूलयन्सानुरागं पश्यन्स युवा सरोषया तयैव पूर्वमुदासीनयैवातोषि परितोषितः, न तु द्वितीययेत्यर्थः । अये आश्चर्ये सरोषो हि दुःखं जनयति न सुखम् । तथापि तादृश्यापि सुखं जनितमिति विरोधादाश्चर्यम् । जनसमक्षमिङ्गितकरणमयुक्तमिति तयेङ्गितं पूर्वं न कृतम् । स तु तदाशयमजानानोऽननुरागेणेयं प्रतीङ्गितं नाकरोदिति बुद्ध्यान्यामपश्यत् । ततश्च सा सपत्नीबुद्ध्या सेा जातेति । मय्यनुरक्तैवेयम् । पूर्वं तु गाम्भीर्यादिङ्गितं नाकरोत् । सानुरागैव च सरोषा भवतीति रोषादनुरागमनुमाय संतुष्ट इति भावः । 'उपेतया' इति पाठे रोषात्तदपसारणार्थं समीपमागतयेत्यर्थः॥

पयःस्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डुकस्तनी
पदं रुचेर्भोज्यभुजां भुजिक्रिया प्रिया बभूवोज्जवलकूरहारिणी ॥१०७॥

 पय इति ॥ भुजिक्रिया भोजनक्रिया भोज्यभुजां भक्ष्यं भुञ्जानानां तेषां प्रिया तृप्तिजननी । अथ च स्त्री बभूव । किंभूता-पयो दुग्धमेव स्मितं हासो यस्याः। तथा-क्कचिन्मृदुसूक्ष्माः, कचिदत्यन्ताग्निसंयोगेन शोणविन्दवो मण्डका अपूपा एव पट्टसूत्रादिरचितरूपकरूपमण्डनयुक्तान्यलंकारभूतानि वाऽम्बराणि वस्त्राणि यस्याः । तथा--