पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९३
नषधीयचरिते


ऽलंकृतं दलोदरमिति वा योज्यम् । 'पोतः पाकोऽर्भकः' इत्यमरः । ग्रन्थलेखनसमाप्तिपन्ने समाप्तिसूचकं छकारादिवर्तुलमक्षरं क्रियते, गैरिकचिह्नितं च क्रियते, । एवं भोजनसमाप्तिसूचकं क्षीरवटकादि ॥

चुचुम्ब नोर्वीवलयोर्वशीं परं पुरोऽधिपारि प्रतिबिम्बितां विटः।
पुनःपुनः पानकपानकैतवाच्चकार तच्चुम्बनचुंकृतान्यपि ॥ ९९ ॥

चुचुम्बेति ॥ कश्चिद्विटः पुरोऽग्रेऽधिपारि पानकरसपूर्णे सुवर्णादिपानपात्रे प्रतिबिम्बितामुर्वीवलये उर्वशीमिवातिसुन्दरी कांचित्परं केवलं चचुम्बेति न किंतु पुनःपुनः पानकस्य द्राक्षादिसाधितमधुररसप्रधानपेयद्रव्यरूपस्य यत्पानं तस्य कैतवात्प्रतिविम्बितायास्तस्याश्चुम्बनस्य संबन्धीनि चुंकृतानि चुम् इति पानकानुकरणशब्दस्तस्य करणान्युच्चारणानि तान्यपि चकार।चुम्बनादिनां तस्यां स्वानुरागंप्रकटीचकारेति भावः। 'झल्लरी वर्वरी पारी पानपात्रम्' इति क्षीरस्वामी । सप्तम्यर्थेऽव्ययीभावः । चुंकृतानि, 'नपुंसके भावे क्तः॥

घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली।
चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रितचान्द्रसौरभा॥१०॥

घनैरिति ॥ घनैर्बहुभिः परिवेषकैरनेकव्यञ्जनदायिभिर्जनैः । तैरेव घनैर्मेगैरमीषां भुञ्जानानां राज्ञां कृते वर्षोपलाः करकास्तत्तुल्यानामेलाकर्पूरशर्करालवङ्गतण्डुलपिष्टरचितानां गोलकानामतिवृत्तानां लड्डुकविशेषाणाम् । अथ च-करकारूपाणां गोलकानां । आवली पङ्तिरवर्षि वितीर्णा वृष्टा च । कीदृशैः-परिवेषणकर्मवशाच्चलन्त्यो या भुजास्तासां भूषणेषु रत्नानि तेषां रोचिषा कान्त्या धृतमिन्द्रचापं यैः । नानाप्रकारकान्तिभिरित्यर्थः । अथ च -तदेवेन्द्रचापो येषु । कीदृशी-श्रितं चान्द्रं कर्पूरसंबन्धि सौरभं सौगन्ध्यं यया । अथच -चन्द्र एव चान्द्रः, सूर एव सौरः, तयोर्भा चान्द्रसौरभा, श्रिता चान्द्रसौरभा यया सा । शीतत्वदीप्तत्वाभ्यां चन्द्रसूर्यसदृशीत्यर्थः । रात्रिदिनयोर्जायमानत्वाद्वा क्रमेण तत्कान्तिसदृशी । चन्द्रसंबन्धिनश्चान्द्राश्चन्द्रकान्ताः, एवं सौराः सूर्यकान्ताः, तेषां भा श्रिता यया वा । चन्द्रसंबन्धि मनोज्ञत्वं सादृश्यं श्रितं ययेति वा । विश्वप्रकाशे सुरभिशब्दो मनोज्ञवाची ॥

कियद्बहु व्यञ्जनमेतदर्प्यते ममेति तृप्तेर्वदतां पुनःपुनः ।
अमूनि संख्यातुमसावढौकि तैश्छलेन तेषां कठिनीव भूयसी ॥ १०१ ॥

 कियदिति ॥ एतत्तेमनादिव्यञ्जनं मम कियत्किंपरिमाणं बह्वर्प्यते । अपितु तृप्ता वयमिति नार्पणीयमिति तृप्तेहेतोः पुनः पुनः वदतां तेषां जन्यानां 'कियत्संख्यं बहु एतद्यञ्जनमर्प्यते, इति एतद्बहुत्वसंख्येयत्ता भवद्भिः पृच्छयते किम्' इति च्छलेनामूनि व्यञ्जनानि संख्यातुं गणयितुमसौ गोलकावली भूयसी बहुतरा कठिनी खटिका इच तैः परिवेषकैरढौकि अर्पिता । भवद्भिर्व्यञ्जनसंख्या पृष्टा, तर्ह्यनया कठिन्या एतानि गणयेति