पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९३
षोडशः सर्गः

 सरोजेति ॥ उभे सख्यौ इति मिथो वादाद्वैमत्यात्किलौदनं न द॑दतुः । किलेति व्याजे । इति किम्-हे सखि, त्वं पात्रमध्ये कूरे ओदने स्थितेऽपि (मुहुरेव वारंवारम्) सरोजकोशवदभिनय आकारो यस्य स्तनवराङ्गप्रार्थनासूचकेन पाणिना कूरं याचतेऽमै कामुकाय कूरं वितर देहि । द्वितीया वदति-त्वं वितर इति विवदमाने । तत्प्रार्थितस्तनवराङ्गदानेऽन्योन्यं प्रवर्तयन्त्योर्मध्येऽन्योन्यलज्जावशादेकतरा रिरंसुरपि नाङ्गीचकारेति भावः । अनुवादात्' इति पाठे उक्तरूपादनुवादादुभे अपि स्वल्पमोदनं किल ददतुरित्यर्थः । ओदनदानव्याजेन तत्प्रार्थितदानमङ्गीचक्रुरिति भावः ॥

इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।
ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयी ॥ ९२ ॥

 इयमिति ॥ पयःप्रदायाः समावृतं वस्त्राच्छन्नमपि हृदयमिति विचार्य पश्यते पृच्छते कामुकाय ध्रुवं निश्चितं मनोज्ञा । अथ च-पराशयज्ञेव । तस्याः करद्वयी भृङ्गारस्य धृतेर्धारणस्य मिषेण यदू यस्मादुत्तरं तदीयप्रश्नस्य प्रतिवचनं व्यतरद्ददौ । इति किम्- इयं स्त्री कियन्तौ किंप्रमाणौ चारू सुन्दरौ च कुचौ यस्याः सेति । स्वर्णकलशीपरिमाणौ स्वर्णवर्णी चैतस्याः कुचाविति तं प्रत्यसूचयदित्यर्थः । उभावपि मिथोऽनुरागादन्योन्यविलोकनपरावेव तस्थतुरिति भावः । अन्योप्यभिप्रायज्ञः केनचिन्मिषेण प्र- श्नस्योत्तरं ददाति ॥

अमीभिराकण्ठमभोजि तगृहे तुषारधारामृदितेव शर्करा ।
[१]हयद्विषद्बष्कयणीपयःसुतं सुधाह्वदात्पङ्कमिवोद्धृतं दधि ॥ ९३ ॥

 अमीभिरिति ॥ अमीभिर्जन्यजनैस्तद्गृहे भीमगृह आकण्ठमतिबहु यथातथा शर्कराभोजि भुक्ता । तुषारधारया हिमोदकेन मृदितेव मिश्रितेव । तथा-हयं द्विषत्या अश्ववैरिण्या महिष्या बष्कयिण्याश्चिरप्रसूतायाः पयो दुग्धं तस्मात्सुतं जातं दुग्धपरिणा- मभूतं दध्यप्यभोजि । सुधाह्रदादमृतस्यागाधजलाशयादुद्धृतं पङ्कमिवेत्युत्प्रेक्षा । शर्करातिशीता शुभ्रा च । दध्यप्यमृतवत्स्वादु शुभ्रं धनं चेति भावः । तद्गृहेऽमीभिर्विशिष्टं ध्यभोजि । तुषारधारया मृदिताऽल्पकणत्वं प्रापिता शर्करेव, सुधाह्रदादुद्धृतं पङ्कमिव, इति दधिविषयमेवोत्प्रेक्षाद्वयं वा ।दध्नः शैत्यं शौक्ल्यम् स्वादुत्वं घनत्वं सूचितमेतेन । 'पयः शृतम्' इति पाठे 'शर्कराऽभोजि । शृतं पक्वं तप्तं महिषीपयश्चाभोजि । दधि चाभोजीति संबन्धः। 'चिरसूता बष्कयणी' इत्यमरः । महिष्या दधि स्वादुतरं भवति । "द्विषः शतुर्वा' इति वचनात् 'हयं द्विषती' इति द्वितीयया 'द्वितीया श्रिता-' इति योगविभागात्समासः । द्विषद्वष्कयणीति 'पुंवत्कर्मधारय-' इति पुंवद्भावः । 'शृतम्' इति 'शृतं पाके' इति साधु ॥


  1. 'वाह' इति जीवातुसंमतः पाठः ।