पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८८
नैषधीयचरिते


मिति वा । क इव-खल इव । किंभूतः-पूर्वं सुहृदापात(आप्तो)रमणीयः, ततोऽनन्तरमहितो वैरी । 'रायी' इति कान्यकुञ्जभाषायाम् ॥

नवौ युवानौ निजभावगोपिनावभूमिषु प्राग्विहितभ्रमिक्रमः।
दृशोर्विधत्तः स्म यदृच्छया किल त्रिभागमन्योन्यमुखे पुनः पुनः॥७५॥

नवाविति ॥ वयःसंधौ वर्तमानौ नवावप्रगल्भावत एव निजभावगोपिनौ स्वानुरागापह्नवपरौ कौचिद्युवानावभूमिषु लोकव्यवहारायोग्येषु स्वायोग्येषु वानुद्देश्येषु वा वस्तुषु प्राक्पूर्वं विहितः कृतो भ्रमेर्निरर्थकभ्रमणस्य क्रमः परम्परा यत्र येन वा एवंभूतं दृशोर्नेत्रयोस्त्रिभागं तृतीयांशरूपं कटाक्षमन्योन्यमुखे पुनः पुनर्विधत्तःस्म चक्रतुः । यदृच्छया किल । 'अन्यविलोकनवत्स्वेच्छामात्रेण क्रमप्राप्तमन्योन्यमुखविलोकनं कुरुतः, नत्वनुरागेणेति लोकप्रतीतिर्यथास्यादेवं वस्त्वन्तरविलोकनव्याजेनान्योन्यमुखं पुनःपुनः कटाक्षैर्वीक्षांचक्राते इति भावः । त्रिभागमिति पूर्ववत्समर्थनीयम् ॥

व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः ।
निशाधवोत्सङ्गकुरङ्गजैरदः पलैः सपीयूषजलैः किमश्रपि ॥ ७६॥

 व्यधुरिति ॥ ते जन्यजना मृगमांसैः साधितं राद्धं संस्कृतं मृदु तेमनाख्यं व्यञ्जनविशेषं रसात्प्रीत्या भुक्त्वेति मनो व्यधुस्तमां नितरां चक्रुः । इति किम्-अदस्तेमनं निशाधवश्चन्द्रस्तस्योत्सङ्गे वर्तमानः कुरङ्गो हरिणस्तस्माज्जातैः पीयूषजलैरमृतरूपैर्जलैः सह वर्तमानैः पलैर्मांसैरश्रपि किमपाचि किम् । रसातिशयान्मनसैवं तर्कितवन्त इत्यर्थः। तेमनस्यातितरां स्वादुत्वमुक्तम् । अश्रपि, 'श्रा पाके' इत्यस्मात्कर्मणि चिणि घटादित्वान्मित्त्वाद्ध्रस्वः॥

परस्पराकूतजदूतकृत्ययोरनङ्गमाराद्धुमपि क्षणं प्रति ।
निमेषणेनैव कियच्चिरायुषा जनेषु यूनोरुदपादि निर्णयः ॥ ७७॥

 परस्परेति ॥ परस्परस्याकूताच्चेष्टाविशेषादेव जातं दूत्यकृत्यं संभोगसंमतिर्ययोः कयोश्चिद्यूनोः स्त्रीपुंसयोरनङ्गमाराद्धुं सुरतं कर्तुं यः क्षणः समयस्तं प्रत्युद्दिश्य सदा क्रियमाणनिमेषापेक्षया कियच्चिरायुषा किंचिदधिककालमायुवर्तमानता यस्यैवंभूतेन कियच्चिरकालस्थायिना निमेषणेनैवाक्षिपक्ष्मसंकोचेनैव कर्तृणा करणेन वा जनेषु मध्ये बहुषु जनेषु वर्तमानेषु सत्स्वपि निर्णयो निश्चय उदपादि कृतः। जातो वा । कदा संभोग इतीङ्गितेन पृष्टे सति नेत्रे निमील्य कंचित्कालं स्थित्वा जने निद्राणे सत्यागन्तव्यमिति रात्रिः संकेतसमय इति निरणायीति भावः । उदपादि, 'चिण् ते पदः' इति कर्तरि, कर्मणि वा चिण् ॥

अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे।
ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥७८॥