पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८४
नैषधीयचरिते

स तत्कुचस्सृष्टकचेष्टि[१] दोर्लताचलद्दलाभव्यजनानिलाकुलः ।
अवाप नानानलजालशृङ्खलानिबद्धनीडोद्भवविभ्रमं युवा ॥६३॥

 स इति ॥ स पूर्वोक्तो युवा व्यजनं चालयन्त्यास्तस्याः पूर्वोक्तायाः स्त्रियाः कुचयोः स्पृष्टकाख्यमालिङ्गनं चेष्टते करोति एवंशीला दोर्लता बाहुवल्ली तस्याः संबन्धि चलद्दलाभं चपलपर्णतुल्यं व्यजनं तालवृन्तं तस्यानिलेन कम्पनसंजातवायुना आकुलो विवशीकृतः स्तनस्पर्शिभुजचालितव्यजनविलोकनमात्रसंजातानुरागतरलः सन् नानानलानामनेकशरकाण्डानां जालस्य सङ्घस्य ([२]नलनालानां नलदण्डानां वा) या शृङ्खला निर्बन्धनहेतुत्वान्तेषां परस्परग्रथननिर्मितः पञ्जरस्तया नितरां बद्धः संकुचितप्रचारीकृतो यो नीडोद्भवः पक्षी तस्येव विभ्रमः पञ्जरमध्य एव यद्विशिष्टं भ्रमणम् । अथ च-तस्य विलाससाम्यमवाप । जनसंमर्देप्यनुरागातिशयाद्व्यजनचालनचलद्भुजान्तर्वर्तितत्कुचयोः परम्परयापि संस्पर्शे सांसर्गिकप्रीत्या साक्षादिव तत्कुचस्पृष्टकालिङ्गनमनुभवञ्जनशङ्कया यथेष्टं चेष्टितुमशक्तः कामातुरः पञ्जरबद्धपक्षिनिर्बन्धमिवानुबभूवेति भावः । लतायाश्चञ्चलदलत्वं युक्तम् । व्यजनचालनव्याजाच्चलतो भुजस्यापि स्तनसंस्पर्शे स्पृष्टकालिङ्गनत्वं युक्तम् । 'नलजाल-' इति पाठः । 'गलनाल-' इति पाठे नानाविधाः कण्ठनालसंबधिन्यः कण्ठबन्धनकारिण्यः शृङ्खला इत्यर्थः ॥

अवच्छटा कापि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन ।
यया युवभ्यामनुनाथने मिथः कृशोपि दूतस्य न शेषितः श्रमः॥६४॥

 अवेति ॥ सा कापि वर्णयितुमशक्या भावोल्लसनचतुरा कटाक्षणस्य नेत्रप्रान्तवक्रवीक्षणस्यावच्छटा भङ्गिः परम्परा वा । तथैव तदुचितैव सा काचन कापि वक्रोक्त्यादिरूपा वचनस्य भङ्गी रचनाप्यभूदिति शेषः । सा का-यया कटाक्षावच्छटया वचनभङ्ग्या च कार्त्र्या युवभ्यां मिथः परस्परमनुनाथनेऽन्योन्यप्रार्थने विषये कृशोऽप्यल्पोऽपि दूतस्य श्रमः प्रयासो न शेषितोऽवशिष्टीकृतः। यया कृत्वा युवभ्यां न शेषित इति वा । आत्मनैव चेष्टाविशेषरचनाद्वारा त्वं किमेष्यसि, अहं वैष्यामीत्यादिप्रश्ननिश्चयाद्दूतस्यानवसर इति भावः । यूनोर्वैदग्ध्यं सूचितम् । 'युवतिश्च युवा च' इत्यत्र 'पुमान् स्त्रिया' इत्येकशेषः । कर्तरि तृतीया चतुर्थी वा । शेषितः, 'तत्करोति-' इति ण्यन्तान्निष्ठा॥

पपौ न कोपि क्षणमास्यमेलितं जलस्य गण्डूषमुदीतसंमदः ।
चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरः स्फुरत्याः स्मरकार्मुकभ्रुवः॥६५॥

 पपाविति ॥ कश्चित्कोपि युवा आस्येन मुखेन मेलितं योजितं करपुटे पानार्थं धृतं जलस्य गण्डूषं पेयं जलं क्षणमात्रं न पपौ । यतः-उदीतसंमद उत्पन्नानुरागः। तथापि


  1. 'चेष्ट' इति पाठो जीवातु'सुखावबोधासंमतः ।
  2. 'नानानलनाल-' इति पाठे 'नलनालानां शरकाण्डदण्डानाम् इति व्याख्येयम्-इति सुखावबोधा । जीवातावपि 'नलनाल-' इत्येव पाठो लभ्यते।