पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८३
षोडशः सर्गः।


नस्वरूपत्वादाश्चर्यम् । मदालिङ्गनेच्छुरियं स्वाशयज्ञापनाय सखीमालिङ्गितवती मामेवालिलिङ्गेति तदाशयमज्ञासीदिति भावः ॥

नतभ्रुवः स्वच्छनखानुबिम्बनच्छलेन कोपि स्फुटकम्पकण्टकः ।
पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरणे न्यविक्षत॥६०॥

 नतेति ॥ स्मरस्य बाणैर्भृशं क्षतो नितरां पीडितः । अत एव स्फुटः प्रकटः सात्त्विकः कम्पः कण्टका रोमाञ्चाश्च यस्य स कोपि कामी स्वच्छनखेषु तदीयनिर्मलनखेष्वनुबिम्बनच्छलेन प्रतिबिम्बव्याजेन पयो दुग्धं जलं वा परिवेषयन्त्याः पाययमानायाः कस्याश्चिन्नतभ्रुवश्चरणे एव शरणे रक्षितृणी न्यविक्षत प्राविशत् । कामपीडाशान्त्यर्थं चिरं चरणावलोकनव्याजेन प्रार्थनप्रणतिसंज्ञामकार्षीदिति भावः। भीतः सकम्पो बाणैः सशल्यः सन् कंचिच्छरणं विशति । क्षत इवेति लुप्तोत्प्रेक्षा वा । 'चरणोऽस्त्रियाम्' इत्यमरोक्तेश्चर[१]णे द्वितीयाद्विवचनान्तम् । 'चरणौ' इति च पाठः । 'शरणम्' इति पाठे चरणरूपद्वयं रक्षितारमिति व्याख्येयम् । न्यविक्षत, 'नेर्विशः' इति त[२]ङ् ॥

मुखं यदस्मायि विभुज्य सुभ्रुवा ह्रियं यदालम्ब्य नतास्यमासितम्।
अवादि वा यन्मृदु गद्गदं युवा तदेव जग्राह तदाप्तिलग्नकम्॥६१॥

{gap}}मुखमिति ॥ तयैवान्यया वा सुभ्रुवा विभुज्य मुखं वक्रीकृत्य यदस्मायीषदहासि । तथा- ह्रियमालम्ब्य लज्जामाश्रित्य नतास्यं नम्रमुखं यथातथा यदासितं स्थितम् । मृदु मञ्जुलं गद्गदमस्पष्टवर्णं यथा तथा यदवादि । युवा तदेव त्रयं तस्या आप्तिस्तस्या लग्नकम् । प्राप्तिनिश्चायकमित्यर्थः। जग्राह । ज्ञातवानित्यर्थः । स्मिताद्यनुभाववशादियं मया लब्धैवेति निश्चिकायेति भावः । वा समुच्चये ॥

विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं प्रसिष्विदे।
उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां ददृशे तदाननम्॥६२॥

 विलोक्येति ॥ यूना व्यजनं विधुन्वतीं चालयन्तीं सुन्दरीमकस्माद्विलोक्य तद्दर्शनादेवाप्तसत्त्वेन प्राप्तसात्त्विकभावेन सता भृशं प्रसिष्विदे। सात्त्विकः स्वेदः प्राप्त इत्यर्थः। आनन्दोद्रिक्तो मनोविकारः सत्त्वम् । तमेव प्रस्वेदं निह्नोतुं मृषा अलीकमूष्माणं प्रस्वेदनिमित्तं संतापं नाटयति एवंशीलेनाभिनयता स्वेदापाकरणव्याजेनोदस्तकण्ठेनोर्ध्वीकृतमुखेन सता लज्जां विजित्य परित्यज्य तदाननं तस्या मुखं ददृशे । स्वकामपीडाज्ञापनार्थं तथापश्यदिति भावः। प्रसिष्विदे, षोपदेशत्वात्षत्वम् । 'प्रसिस्विदे' इति पाठ[३]श्चिन्त्यः॥


  1. 'चरणे' इति द्वितीयाद्विवचनान्तम्, सप्तम्यन्तमित्यपि' इति सुखावबोधा
  2. 'सापह्नवोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः।
  3. 'अत्रागन्तुकेन घर्मस्वेदेन सहजसात्त्विकस्वेदगूहनान्मीलनालंकारः' इति जीवातुः