पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८२
नैषधीयचरिते

स्मितं लज्जा चानुरागसूचिका । मया स्वानुरागद्योतनार्थं हास्ये कृतेऽनया हास्यपूर्वं लजितं चेत्तर्हीयं मय्यनुरक्तेति निश्चितवन्तं तत्स्मितमेव कामवाणीभूय न्यपीडयदिति भावः । बालत्वादपि वलितग्रीवत्वम् । प्रौढा तु संमुखमेव हसति । स्मिते, स्मितमिति कर्तरि भावे च क्तः। वेधिता, विधेस्तौदादिकात्ताच्छील्ये णिनिः॥

कृतं यदन्यत्करणोचितत्यजा दिदृक्षु चक्षुर्यदवारि बालया।
हृदस्तदीयस्य तदेव कामुके जगाद वार्तामखिलां खलं खलु॥५७॥

 कृतमिति ॥ करणस्य कर्तव्यस्योचितं परिवेषणादि त्यजति तया बालया यदन्यदप्रस्तुतं व्यापारान्तरं कृतम् । तथा-पुनःपुनः दिदृक्षु दर्शनेच्छु किंचिद्दृगन्तमात्रेण द्रष्टुं प्रवृत्तमपि चक्षुर्यदवारि अर्धात्परावर्तितम् । तदेवान्यकरणचक्षुर्वारणरूपं द्वयमेव कामुके विषये तदीयस्य हृदो बालासंबन्धिनो मनसोऽखिलां वार्तामाशयं जगाद । यतः-खलं सूचकम् । खलूत्प्रेक्षे निश्चितं वा । दुर्जनो ह्यन्यदीयमनोगतमन्यस्मै निवेदयति । लज्जानुभाववशादियं मय्यनुरक्तेति सोज्ञासीदिति भावः । 'खले' इति पाठे स्वाशयद्योतनपरेङ्गितज्ञानचतुरे इति कामुकविशेषणम् ॥

जलं ददत्याः कलितानतेर्मुखं व्यवस्यता साहसिकेन चुम्बितम् ।
पदे पतद्वारिणि मन्दपाणिना प्रतीक्षितोऽन्येक्षणवञ्चनक्षणः॥५८॥

 जलमिति ॥ कंचित्पिपासुं जलं पाययमानायाः । पादप्रक्षालनार्थं वा कस्मैचिज्जलं ददत्याः। अत एव कलितानतेर्नम्रीभूतायाः कस्याश्चित्सुन्दर्याः समीपवर्ति मुखं जनमध्ये चुम्बितुं व्यवस्यता कृतोद्यमेन । अत एव साहसिकेनाविचार्यकारिणा केनचित्कामुकेन पतद्वारिणि पदे मन्दपाणिना विलम्बार्थंविरलाङ्गुलिस(ष)ङ्गगलज्जलपाणिना सता। पादप्रक्षालनालसपाणिना वा सता । अन्यस्यां चुम्बनसामग्र्यां सत्यामेकपङ्क्तिनिविष्टानामन्येषां तत्र विचरतां वा । ईक्षणस्य दर्शनस्य । ईक्षणानां नेत्राणां वा वञ्चनार्थं प्रतारणार्थमनीक्षणार्थं क्षणोऽवसरः प्रतीक्षितो विलम्बेन गवेषितः । पानपक्षे–पदे चरणे विरलाङ्गुलिभ्यः पतद्वारि यस्मिन्नेवंभूते । पादप्रक्षालनपक्षे–पतद्वारिणि पदे मन्दपाणिनेति योज्यम् । अन्यानिरीक्षणावसरं प्रतीक्ष्य तन्मुखं चुचुम्बेति भावः ॥

युवानमालोक्य विदग्धशीलया स्वपाणिपाथोरुहनालनिर्मितः ।
श्लथोपि सख्यां परिधिः कलानिधौ दधावहो तं प्रति गाढबन्धताम्॥५९॥

 युवानमिति ॥ विदग्धशीलया चतुरया कयाचित्सुन्दर्या युवानं कंचित्तरुणमालोक्य कलानां सकलविद्याचातुर्याणां निधौ स्थानभूतायां स्वाशयज्ञायां प्रियसख्याम् । अथ च-सखीरूपे चन्द्रे स्वपाणिभ्यामेव पाथोरुहनालाभ्यां कमलनालाभ्यां निर्मितो रचितः कण्ठाश्लेषरूपः परिधिः श्लथोऽपि शिथिलबन्धोऽपि तं नेत्रलक्ष्यं युवानं प्रति लक्ष्यीकृत्य गाढबन्धतां दृढबन्धनत्वं दधौ बभार । अहो आश्चर्ये । कलानिधौ च परिवेषो युक्तः । श्लथस्य गाढ़त्वविरोधात्सख्यां चन्द्रे वा कृतस्यालिङ्गनस्य परिधेश्च बन्ध-