पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
प्रथमः सर्गः

दुःखदायिनी इति । दुःखदं जातमित्यर्थः । अहर्महः कौमुदीति व्यस्तरूपकम्, तस्सै मुदो नादत्त इति वा । शैत्यादिगुणयोगादहर्महस्तस्मै मुदोऽदत्त, न कौमुदीति वा । शैत्यादिगुणयोगेन दिवसतेजः सुखान्तरं ददौ, कौमुदी मुदो न ददाविति वा। दिवसतेजः कौमुदीजन्यहर्षान्नादत्त किम् । अपि तु ददावेवेति वा । अहर्मह इति 'रोऽसुपि' इति रेफः॥

अयोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम्।
पिकेन रोषारुणचक्षुषा मुहुः कुहूरुताहूयत चन्द्रवैरिणी ॥ १०० ॥

 अयोगेति ॥ अयोगभाजोऽपि विरहिणोऽपि नृपस्य नलस्य तत्प्रसिद्धमाननं मुखं साक्षादबाधितत्वेन अमृतांशुं चन्द्रमेव पश्यता पिकेन कोकिलेन चन्द्रवैरिण्यमावस्या मुहुराहूयताकारिता। किंभूतेन पिकेन-अनेन मुखेन विरहित्वान्म्लानेन भवितव्यं, तदधुनापि न म्लायतीति रोषेण क्रोधेन अरुणे रक्ते चक्षुषी यस्य । तथा-कुहूः कुहूः इति रुत् शब्दो यस्य । कुहूः इति रौतीति वा । कुहूः इति रुत् शब्दस्तयामावास्या आकारिता । उत इति निश्चये, किंत्वर्थे वा । चन्द्रवैरिणी कुहूरिति वा योजना । विरहेऽपि चन्द्राधिक्यं मुखस्य । तदेव पाण्डुतादिगुणोपेतमेवेति वा । 'कुहूः स्यात्कोकिलालापनष्टेन्दुकलयोरपि' इति विश्वः । पिकस्य नेत्रे स्वभावेनैव रक्ते, शब्दश्च कुहूरिति । तत्रैतत्सर्वमुत्प्रेक्षितम् ॥

अशोकमर्थान्वितनामताशयागताञ्शरण्यं गृहशोचिनोऽध्वगान् ।
अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥१०१॥

 अशोकेति ॥ एष नलोऽशोकं वृक्षमेवंभूतमिवामन्यत । अर्थेन 'यत्सेवया शोको न भवति' इत्येवंरूपेणान्वितमन्वर्थं नाम यस्य तस्य भावोऽर्थान्वितनामता तस्यामाशयाभिलाषेणागतान्प्राप्तान्गृहशोचिनः स्त्रीशोचिनोऽध्वगान्पान्थानवन्तमिवामन्यत' इत्यन्वयः। पुनः किंभूतम्-पल्लवैः शाखाग्रैः कृत्वा प्रतीष्टमङ्गीकृतं कामस्य ज्वलत् आरक्तमस्त्रजालकमस्त्रसमूहो येन, अस्त्ररूपाणि जालकानि कलिका येनेति वा । यतः-शरण्यं शरणे रक्षणे साधुम् । अन्योऽपि शरण्योऽरिशस्त्राणि स्वाङ्गे गृह्णञ्शरणागतान्रक्षति । पल्लवैरवन्तमिति वा। कामस्य ज्वलदस्त्रजालकमाग्नेयास्त्रकाण्डं येनेति वा।अर्थान्वितनामताशया शरणागतान्पान्थानवन्तं मारयन्तमिति वामन्यत । अवन्तं मारणार्थमेवेति तात्पर्यम् । यतः शरणे मारणे साधुं समर्थम् । पथिकानां कामास्त्रेभ्यो भयम् , तानि तु पुष्पान्तराद्दारुणान्यत्रैव विद्यन्ते । ततश्च 'कामशस्त्राणि स्वहस्ते गृहीत्वायमेव मारयति' इति प्रकृतौपयिकत्वादयमेवार्थः साधीयान् । रक्तान्यशोकपुष्पाणि दृष्ट्वा पान्था व्यथन्ते इत्यर्थः । 'शरणं वधरक्षित्रोः शरणं रक्षणे गृहे' 'गृहाः पत्न्यां गृहे स्मृताः' इति विश्वः।


१ 'अत्रोपमालंकारः । वनानिलादिषु सुखकारणेषु सत्सु सुखकार्यानुत्पत्तेरुक्तनिमित्तविशेषोक्तिरलंकारः' इति साहित्यविद्याधरी । २ 'वियोग-' इति पाठो जीवातुसंमतः । ३ 'अत्रोत्प्रेक्षा रूपकालंकारः' इति साहित्यविद्याधरी । अत्रोत्प्रेक्षा श्लिष्टरूपकसापेक्षेति संकरः' इति जीवातुः।