पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य ख्यातः कुशाग्रीयप्रज्ञः । राजा तं जगाद-'राज्यं कस्मै कुमाराय ददामि'। मन्त्र्याह-'मेघच- न्द्राय सुवंशाय देहि । न पुनर्धतापुत्राय' । राजा तु तया कामणितस्तत्पुत्रायैव दित्सते । एवं विरोध उत्पन्नो मन्त्रिराज्ञोः । कथं कथंचिन्मन्त्रिणा राज्ञीवाचमप्रमाणीकार्य भूपो मेघचन्द्रराज्य- दानमङ्गीकारितः। राज्ञीक्रुद्धा धनाढ्यतया स्वच्छन्दतया निजप्रधाननरान् प्रेष्य तक्षशिलाधिपतिः सुरत्राणः काशीभञ्जनाय प्रयाणे प्रयाणे सपादलक्षहेमदानोक्त च (च) न वलितः, आयाति । (तत्तु) विद्याधरेण चरदृशा विदितं राज्ञे कथितम् ।राजा तत्कार्मणदृढमूढः प्राह-'ममेयं वलुभेश्वरी नैवं पतिद्रोहं समाचरति' । मन्त्री तु वदति 'राजन् ! अमुकप्रयाणे तिष्ठति साखीन्द्रः' । राज्ञा हक्कितो गतो गृहम् । चिन्तितं च तेन-'नृपस्तावन्मूढः, राज्ञी बलवती लब्धप्रसराऽविवेकिनी, मम मरणं यदि स्वामिमरणादर्वाग्भवेत् तदा धन्यता । प्रातश्चलितो मन्त्री स्वसदनात्पथि ग- च्छन्तं पिण्याकं दृष्ट्वा तमजिग्रसिषत् , पुनः पुरोगतः स्फुटितचणकपिटकमालोक्य तददने मनोऽदधात् । तेन कुचेष्टाद्वयेनात्मनो विधिवपरीत्यं निणीयोपराज व्यजिज्ञपत्–'देवाहं गङ्गा- जले मङ्क्त्वा म्रिये यद्यादिशसि' । राजाख्यत-'यदि म्रियसे, तदा सुखं जीवामः । कर्णज्वरो नि- वर्तते' । मन्त्री दूनः-९ हितवचनानाकर्णनम् , अनये वृत्तिः, प्रियेष्वपि दोषः, निजगुरुजनेप्य- वज्ञा, मृत्योः किल पूर्वरूपाणि । आगतं राज्ञो मरणम् । राजानमापृच्छय गृहं गत्वा सर्वस्वं द्विजा- दिलोकाय प्रदाय भवविरक्तो जाहवीजलमध्यं प्रविश्य कुलप्रो(पुरो)हितमाह-दानं गृहाण । विप्रेणापि करः प्रसारितः । दत्तः स्पर्शपाषाणः । तेन तु 'धिक्ते दानं यद्रावाणं दत्से' इति क्रुद्धनान्तरुदकं चिक्षेप सोऽश्मानं गङ्गादेव्या जले । मन्त्री जले मङ्क्वा मृतः । राजाऽनाथो जातः। सुरत्राण आयातः । नगरे भाण्डं भाण्डेन स्फुटितम् । राजा युद्धायाभिमुखमगात् । ८४०० (१) निखानं स्वानं राजा न शृणोति । अपृच्छच्च तटस्थान् । तैर्बभणे-म्लेच्छधनुर्ध्वानेषु म- ग्नानि ध्वानान्तराणि । राजा हृदयेऽहारयत् । ततो न ज्ञायते किं हतो मृतो वा। यवनाता पू:" इति राजशेखरसूरिणा १३४८खिस्टाब्दे विरचिते प्रबन्धकोषे श्रीहर्षविद्याधरजय- न्तचन्द्रप्रबन्धात् , 'गौडेदेशीयः' इति "श्रीहर्षवंशे हरिहरो गौडदेश्यः” इत्येतदुत्तरहरि- हरप्रबन्धतोऽवगम्यते ॥ जयचन्द्रराज्यसमयस्तु- "अकुण्ठोत्कण्ठवैकुण्ठकण्ठपीठलुठत्करः । संरम्भः सुरतारम्भे स श्रियः श्रेयसेऽस्तु वः ॥ १ ॥ आसीदशीतद्युतिबंशजातक्ष्मापालमालासु दिवं गतासु। साक्षाद्विवस्वानिव भूरिधाम्ना नाम्ना यशोविग्रह इत्युदारः ॥ २ ॥ तत्सुतोऽभून्महीचन्द्रश्चन्द्रधामनिभं निजम् । येनापारमकूपारपारे व्यापारितं यशः ॥ ३ ॥ १ अतएव स्वाभिजनस्वामिवर्णनं कृतवान् । तथाचोक्तवान् स्वयमेव सप्तमसर्गसमाप्तिश्लोके 'गौडो:- शकुलप्रशस्तिभणितिभ्रातरि' इति प्रकृतनैषधीयचरितमहाकाव्यविशेषणम् ॥