पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७९
षोडशः सर्गः ।

भोजनोपदेशो वा । एवमुत्तरत्रापि । तथा-पिपासतस्तृषालोस्तव पानार्थं सर्वतोमुखं जलमप्यर्पयन्तां ददतु। तथा-ओदनमपि कामं यथेच्छमपर्यन्ताम् ।

 परिहासस्तु-अत्र आसु मध्ये । विविक्ते स्थाने वा । अङ्गरुचेः स्तनजघनाद्यङ्गानां रुचेर्दर्शनाद्यभिलाषस्योचितं यथा भवति तथा तव मनसोऽपहारमपहरणं रचयन्तु । स्तनादिदर्शनादिनान्तःकरणहरणं कुर्वन्त्वित्यर्थः । कायकान्तेर्हेतोः सौन्दर्यातिशयान्मनोहरणं कुर्वन्त्विति वा । तथापिपासतश्चुम्बनेच्छोस्तव सर्वतो नेत्रादिचुम्बनस्थाने दर्शनमात्रेण कामस्य हर्षकरं मुखमर्पयन्ताम् । बहूनां चुम्बनस्थानानामेकत्र मुखे वर्तमानत्वान्मुखमेव तव ददत्वित्यर्थः । अथ च-कामस्य हर्षकरं वराङ्गमपि चुम्बनार्थमर्पयन्ताम् । अथ च-मुखं पिपासतस्तव सर्वदा वराङ्गमेव दतु । 'स्यात्तेमनं तु निष्ठानम्' इत्यमरः । पूर्वव्याख्याने तवेत्युभयत्र योज्यम् । मुखं सर्वत इति, 'उभसर्वतसो:-' इति द्वितीया । तव, ते इति च संबन्धसामान्ये [१]षष्ठी ॥

मुखेन तेत्रोपविशत्वसाविति प्रयाच्य सृष्टानुमतिं खलाहसत् ।
वराङ्गाभगः स्वमुखं मतोऽधुना स हि स्फुटं येन किलोपविश्यते॥

 मुखेनेति ॥ काचित्खला वक्रोक्त्यादिभाषिणी । हे वारयात्रिक, असौ मत्सखी पुरुषो वात्र स्थाने ते तव मुखेनोपलक्षितत्वात् । संमुखमिति यावत् । त्वदुपायेन वा । त्वदायेति यावत् । त्वया सह भोजनार्थं तव पुरस्ताद्वा । भोजनार्थमुपविशत्विति प्रयाच्य संप्रार्थ्य मुखेनोपविशत्विति सृष्टा दत्तानुमतिरनुज्ञा येन तं वारयात्रिकं पश्चादहसत् । हासे कारणमाह-हि यस्माद्येन साधनेन किलोपविश्यते स हि वराङ्गभागो गुह्यदेशः । अमुना जनेन स्वस्यात्मनो मुखं स्फुटं निश्चितं मतः । मुखेन करणेनोपविशत्वित्येवमर्थपरं तद्वचनमज्ञात्वा तेनानुज्ञायां दत्तायां कटिदेशाधःप्रदेशेन किलोपविश्यते इत्येवं वदतानेन स्वमुखं वराङ्गत्वेन मतं यस्मात्, तस्माद्धास्यं युक्तमित्यर्थः । सर्वजनबोधपुरःसरं जहासेति वा । अथच -ते मुखेनोपविशतु, अपितुषोत्सर्गार्थमुपविशत्विति प्रयाच्य तदीयं जुगुप्सितमर्थमगृहीत्वा सृष्टानु-तिं तमन्दान। 'मुखं निःसरणे व प्रारम्भोपाययोरपि' इति विश्वः॥

युवामिमे मे स्त्रितमे इतीरिणौ गले तथोक्ता निजगुच्छमेकिका।
न भास्यदस्तुच्छगलो वदन्निति न्यधत्त जन्यस्य ततः पराकृषत् ॥ ५१ ॥

 युवामिति ॥ इमे पुरोवर्तिन्यौ युवां मे मम (तेन) स्त्रितमे उत्तमे स्त्रियौ भवादृशे स्त्रीरत्ने न दृष्टे इतीरिणो वदतः स्तुवतः । अथच-मत्संबन्धिन्यौ प्रियतमे भवेतामिति वा परिहासाद्वदतः । कदाचिज्जनस्य वरपक्षीयस्य गले तथा यथा त्वयोच्यते तथेत्युक्त्वा तयोर्द्वयोर्मध्ये एकिका एकैव निजगुच्छं रज्जुस्थाने हारविशेषमेवेत्युक्त्वा न्यधत्त। इतीति किम्-हे जन्य, त्वं अदः पूर्वोक्तं इमे मे इति शब्दं वदन्कुर्वन् , तु पुनश्छगलश्छागो न भासि । अपितु एवं शब्दं कुर्वञ्छाग एव स्फुरसि । अथच-तुच्छः स्तन-


  1. 'अत्रोभयोरप्यर्थयोर्विवक्षितत्वेन प्रकृतत्वात्केवलप्रकृतश्लेषः' इति जीवातुः