पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७८
नैषधीयचरिते

तथाशनाया निरशेषि नो ह्रिया न सम्यगालोकि परस्परक्रिया।
विमुक्तसंभोगमशायि सस्पृहं वरेण वध्वा च यथाविधि त्र्यहम् ॥ ४७ ॥

 तथेति ॥ वरेण वध्वा चाशनाया बुभुक्षा ह्रिया कृत्वा तथा पूर्ववन्नो निरशेषि न निःशेषिता । आतृप्ति न भुक्तमित्यर्थः । तथा-परस्परक्रियान्योन्यं चेष्टादिव्यापारोऽपि ह्रियैव सम्यक्संमुखदर्शनेन नालोकि न विलोकितः। किंतु दृगन्तमात्रेणेत्यर्थः। तथा- त्र्यहं दिनत्रयं यथाविधि विमुक्तसंभोगं त्यक्तसुरतं यथा तथा परं सस्पृहं सुरतेच्छासहितं यथा तथाशायि शयितम् । त्र्यहमिति सर्वत्र योज्यम् । विध्यतिक्रमभयादिनत्रयं ताभ्यां सह भुक्तम् , अन्योन्यं विलोकितम्, सह निद्रितं च । परं लजया न यावत्तृप्ति भुक्तम्, नाशेषाङ्गं दृष्टम् , न च चुम्बनालिङ्गनादिपूर्वं शयितमित्यर्थः। 'एकत्र शयनं त्रिरात्रं ब्रह्मचर्य च' इति विधिः । अशनाया, 'अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु' इति साधुः । त्र्यहं, समाहारे द्विगौ 'राजा(हः-'इत्या)दिना टच् । 'न संख्यादेः समाहारे' इत्यह्रादेशाभावः । 'रात्राह्राहाः पुंसि' इति पुंस्त्वम् । अत्यन्तसंयोगे द्वितीया । त्र्यहं विमुक्तसंभोगमिति योजना ॥

कटाक्षणाज्जन्यजनैर्निजप्रजाः क्वचित्परीहासमचीकरत्तराम् ।
धराप्सरोभिर्वरयात्रयागतानभोजयद्भोजकुलाङ्करः क्वचित् ॥ ४८ ॥

 कटाक्षेति ॥ भोजकुलस्य भीमपूर्वजभोजाख्यक्षत्रियवंशम्लर्मुहु इवाङ्कुरो बालो दमः क्वचिद्भीमदृक्पथागोचरे कस्मिंश्चिद्देशे जन्यजनैर्वारयानि स्वपक्षीयैः सह निजाः प्रजाः परिहासपात्रभूतपौरवारस्त्रीमुख्यास्ताभिः । प्रयोजुत इति वाः । कटाक्षणान्नेत्रसंज्ञया परीहासं श्लेषवक्रोक्त्यादिनार्थान्तरोपदर्शन... रत्तरामतितरां कारयाम तथा-क्वचिच्च वरयात्रया निमित्तेनागतासमाधीया... राजलोकान्धराप्सरोभर्दासीस्वैरिणीसैरन्ध्रीप्रभृतिभिः पुरसुन्दरी मेधारक ...भोजयद्भोजनमकारयत् परिवेषणार्थं काश्चित्सहभोजनार्थं काश्चिदादिष्टवानित्यर्थः । विवाहे कनीयसामेवोपहासकारणयोग्यत्वादुङ्कुरपदप्रयोगो युक्तः। कटाक्षशब्दात् 'तत्करोति- इति ण्यन्ताल्युट् । निजप्रजाः, 'ह्रक्रोः-' इति कर्मत्वम्। आगतान् , भुजेः प्रत्यवसानार्थत्वात् 'गतिबुद्धि-' इति कर्मत्वम् । अभोजयत् , 'निगरणचलनार्थेभ्यश्च' इति परस्मैपदम् ॥

 तमेव प्रकारमाह-

स कंचिदूचे रचयन्तु तेमनोपहारमत्राङ्गरुचेर्यथोचितम् ।
पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् ॥ ४९ ॥

 स इति ॥ स दमः कंचित् नलपक्षीयमेवमूचे। स्वजनमुखेनेति शेषः । अङ्ग हे वारयात्रिक, अत्र पात्रे । आसु परिवेषिकासु मध्ये वा। काश्चन स्त्रियस्तव रुचेरभिलाषस्य यथोचितमुचितमनतिक्रमेण तेमनाख्यस्य व्यञ्जनस्योपहारमानयनं रचयन्तु कुर्वन्तु यावदभिलाषं तेमनमानयन्तु । किमिति प्रश्नकाल (कुः)। एता एवं कुर्वन्तु, त्वं भुङ्क्ष्वेति