पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६७
पोडशः सर्गः।

यञ्चिन्तामणीनां दाम मालां ददौ, एष श्वशुरो भीमस्तकामदं सकलाभिलषितदायि सुराणामुचितं देवधार्यं चिन्तामणिदाम नलाय ददे । उत्प्रेक्षायामेव तात्पर्यम् । 'सुतोचितम्' इति पाठे भैम्युचितम् ॥

 तदेव वर्णयति-

बहोर्दुरापस्य वराय वस्तुनश्चितस्य दातुं प्रतिबिम्बकैतवात् ।
बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने ॥ १७ ॥

 बहोरिति ॥ यञ्चिन्तामणिदाम बभौतराम् । किंभूतम्-यहोरपरिमितस्य, तथा--दुरापस्य दुर्लभस्य दिव्यस्य वराय जामात्रे दातुं चितस्य पुरः पुञ्जीकृतस्य रत्नहेमवसनहस्त्यश्वादेर्वस्तुनः पदार्थसमूहस्य स्वस्मिन्प्रतिविम्बस्य कैतवाद्याजादन्तरवस्थितं स्वस्य मध्ये स्थितर्थिने याचकायाभ्यर्थितं सत्तदानीमेव दातुमर्हमर्थं वस्तुजातं दधद्धारयदिव । 'तद्ददाविति' पूर्वेणान्वयः । 'यदा यद्यो याचिष्यते तदैव तद्वस्तु तस्मै दातव्यमिति वुद्द्या स्वनाम सार्थकीकर्तुं वस्तुजातमन्तः स्थापितमिवेत्यर्थः । बहोरिति भाषितपुंस्कम् ॥

असिं भवान्याः क्षतकासरासुरं वराय भीमः स्म ददाति भासुरम् ।
ददे हि तस्मै धवनामधारिणे स शंभुसंभोगनिमग्नयानया ॥१८॥

 असिमिति ॥ भीमः क्षतो हतः कासराख्यो महिषाख्योऽसुरो येन तं भासुरं देदीप्यमानं भवान्या दुर्गाया अलिं खङ्ग्ं वराय ददाति स्म । तस्याः खङ्गस्तेन कथं प्राप्त इत्यत आह-हि यस्मात्स्फुटं वा शंभुना सह संभोगस्तत्र निमग्नया सुरतरसासक्तयानया दुर्गया आत्मवैरिदलनानन्तरं स्वस्य प्रयोजनाभावात्सुरतासक्तत्वे खड्गधारणस्य रसभङ्गजनकत्वाञ्च धवनामधारिणे 'भीम' इति शिवनामधारकाय शंभुसेवकाय तस्मै भीमाय ददे । शंभौ सम्यगविच्छेदेन निरन्तरं भोगाय निमग्नया दक्षिणार्धेन प्रविष्टया वा । तत्त्वतस्तु तया प्रसाद्य दत्तः। 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः। भासुरम् ‘भञ्जभास-' इति घुरच् ॥

अधारि यः प्राग्महिषासुरद्विषा कृपाणमस्मै तमदत्त कूकुदः ।
अहायि तस्या हि धवार्धमज्जिना स दक्षिणार्धेन [१]पराङ्गदारणः ॥

 अधारीति ॥ महिषासुरद्विषा दुर्गया प्राग्यः खड्गोऽधारि । कूकुदः कन्यादाता भीमस्तं कृपाणं खड्गं सत्कारपूर्वं सालंकारमस्मा अदत्त । कथं तेन लब्ध इत्याशक्ङ्याह-हि यस्मादर्धनारीश्वरत्वाद्धवस्य भर्तुः शिवस्यार्धमज्जिनार्धप्रविष्टेन तस्याः पार्वत्या दक्षिणार्धन शरीरदक्षिणभागेन पराङ्गदारणो वैर्यङ्गदारणः स खड्गोऽदायि त्यक्तः । सखङ्गेन धववामार्धं विशता मदीयदक्षिणार्धेन तद्विदारिष्यत इति भिया त्यक्तः। अदायि'


  1. 'परार्ध' इति क्वाचिके पाठे ‘परार्धसंख्यानाम्' इति, 'परस्य धवस्य यदर्धे शरीरवामलक्षणम्' इति वा-
    इति सुखावबोधा।