पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६६
नैषधीयचरिते


मजाधररूपं मधु पास्यन्पास्यति तस्मात्तदा मधुपर्कदानावसरे मधुपर्कास्वादनमिषेण पुण्याहविधिं शुभनक्षत्रादियुक्तपुण्यदिनकृत्यं मङ्गलपूर्वमुपक्रममकृत । अन्योपि शुभकार्यं करिष्यञ्शुभविवाहदिनादौ तदीयमारम्भं करोति । तथा-अनेनापि भैम्यधरपाने मुहूर्तश्चक्र इति जनेन तर्कितमित्यर्थः । अधरस्यातिस्वादुत्वमुक्तम् । 'असिस्वदत्' इति चौरादिकात्स्वदेश्चङ् । ये तमपि षोपदेशं मन्यन्ते तैः षत्वाभावश्चिन्त्यः । 'असिष्वदत्' इति पाठाभावाद(णिज)र्थस्य दुर्योजत्वाञ्च चौरादिक एव । पास्यन्, 'लटः सद्वा' इति शता। पुण्यं च तदहश्च, 'राजाहः-' इति टचि 'पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा' पुण्याहं तत्र विधिरिति विग्रहः

वरस्य पाणिः परघातकौतुकी वधूकरः पङ्कजकान्तितस्करः। सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः १४

वरस्येति ॥ वरस्य पाणिः परघातकौतुकी शत्रुमारणकुतूहली, वधूकरः पङ्कजकान्तितस्करः कमलश्रीचोरो यस्मात्तस्मात्कारणात्किमु सुराज्ञि भीमेन राजन्वति तत्र तसिन्विदर्भमण्डले विदर्भराष्ट्रे तौ वरवधूकरौ कर्कशैः कुशैर्नितरां बद्धौ । उभयहस्तयोः कुशवन्धनपूर्वं पाणिग्रहणमभूत् । तत्र कुशवन्धने कारणोत्प्रेक्षा क्रियते । एको हिंस्रः, अपरश्चौर इति सापराधत्वात्किमु बद्धावित्यर्थः । अन्यत्रापि सौराज्ये अन्यघातकतस्करौ कठिनदोरकैर्बध्येते । पाणिग्रहणं जातमिति भावः । कुशैः पाणिबन्धनं देशाचारः। यथाक्रमं करयोः शौर्यं मार्दवं च सूचितम् । सुराज्ञि, 'राजाहः-' इत्यस्य नियततत्पुरुषविषयत्वात् , अत्र बहुव्रीहिविषयत्वादृच्प्रात्यभावः ॥

विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल । विशङ्कय सूत्रं पुरुषायितस्य तद्भविष्यतोऽस्मायि तदा तदालिभिः॥

विदर्भेति ॥ विदर्भजायाः करवारिजेन यत्तदा पाणिग्रहणसमये नलस्य पाणेरुपरि स्थितम् । तदुपरिस्थानं किल निश्चितं विपरीतरते भविष्यतः पुरुषायितस्य पुरुषवदाचरितस्य । विपरीतरतस्येति यावत् । सूत्रं सूचनाकारि विशङ्ख्य विशेषेण संभाव्य कौतुकविलोकनार्थं निकटस्थिताभिस्तदालिभिर्भैमीसखीभिरस्मायि ईषद्धसितम् । विपरीतरते हि स्त्रीपाणिरुपरि भवति । विवाहे वधूकरो वरकरस्योपरि भवति । 'सूत्रं तु सूचनाग्नन्थे' इति विश्वः ॥

इदानीमित आरभ्य 'न तेन वाहेषु-' इति यावद्विवाहोचितं यौतकं प्रतिपादयति-

सखा यदस्मै किल भीमसंज्ञया स यक्षसख्याधिगतं ददौ भवः । ददौ तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम ||१६ ||

सखेति ॥ भीमसंज्ञया 'भीम' इति नाममात्रेण सखा स्वस्यापि भीमनामत्वात् किलोत्प्रेक्षायाम् । भवो महेश्वरोऽस्सै भीमाय यक्षेण कुबेरेण सह यत्सख्यं मैत्त्री तेनाधिगतं प्राप्तं


१ 'सापहवोत्प्रेक्षा' इति जीवातुः।