त्तीर्य पद्गतां पादचारित्वं गतं प्राप्तम् । दमेनैव वन्धून्पुरः प्रस्थाप्य इत इत्युदीरितमिति
वा। आ द्वारतः। पदद्वयम् । पद् इति ‘पादस्य पदाज्यातिगोपहतेषु' इति पादस्य पद् ॥
अथायमुत्थाय विसार्य दोर्युगं मुदा प्रतीयेष तमात्मजन्मनः । |
अथेति ॥ अथ नलदर्शनानन्तरमयं भीम उत्थाय प्रत्युत्थानं कृत्वा आत्मजन्मनो भैम्याः पात्रं योग्यमागतं तं नलं दोर्युगं विसार्य प्रसार्य मुदा प्रतीयेषाऽऽलिलिङ्ग । कः कमिव-सरित्पतिः सुरस्रवन्त्या भागीरथ्या आगतं पात्रं प्रवाहमिव नौकादिकं वा । किंभूतः-भृते धृतेऽभितः पार्श्वद्वये वीचिगती तरङ्गपरम्परे येन । 'वीचिततिः' इत्याप पाठः॥
यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मी बहुवाहिनीश्वरः । |
यथावदिति ॥ अथालिङ्गनानन्तरं महीभृतां राज्ञां पतिर्बहुवाहिन्या ईश्वरः स्वामी स भीमः सर्वविदे सर्वविद्याविज्ञाय शिवाय शुभश्रवणकीर्तनाय अत एव पुरुषोत्तमाय पुरुषश्रेष्टायास्मै नलाय साधुलक्ष्मीं समीचीनकायकान्तिम्, अत एव शिवा शुभरूपां तां भैमीं स्वस्य नन्दनां कन्यां यथावद्वेदोक्तविधिना देदे । 'मधुपर्कात्पूर्वं (र्कपूर्वं) कन्यादानम्' इत्याचारः । मधुपर्कादिविधिपूर्वं ददे दातुमारब्धवानिति वा । अथ च--बहुनदीश्वरः समुद्रः पुरुषोत्तमाय तां स्वकन्यां लक्ष्मीं यथावद्ददे तत्साधु । तथा--पर्वतराजो हिमालयः सर्वज्ञाय श्रीमहादेवाय स्वपुत्रीं पार्वतीं ददे तदपिसाधु। यद्वा--मेनकादिपर्वतानां पालयिता समुद्रः शिवस्वरूपाय विष्णवे शुभरूपां लक्ष्मी दे तत्साधु । अथच-बहुनदीयुक्तो हिमालयः पुरुषोत्तमरूपाय श्रीहराय श्रीपार्वर्तीं देदे । पार्वतीरूपां लक्ष्मीम्, लक्ष्मीरूपां पार्वतीमिति वा । नलाय पुरुषोत्तमायेव शिवायेव भैमी लक्ष्मीमिव शिवामिव भीमः समुद्र इव हिमवानिवेत्युपमालंकारो व्यज्यते । साधुलक्ष्मीमित्यत्र समासान्तविधेरनित्यत्वात्कबभावः[१] ॥
इदानी विवाहविधिमाह-
असिखदद्यन्मधुपर्कमर्पितं स तव्द्यधातर्कमु[२]दर्कदर्शिने । |
असिस्वददिति ॥स नलः अर्पितं भीमेन दत्तं सहमिश्रितकांस्यपात्रस्थदधिमधुघृतरूपं मधुपर्कं यदसिस्वददास्वादितवान्तदुदर्कदर्शिने विवाहोत्तरफलपरिपाकभूताधरचुम्बनादिविचारिणे लोकायेति तर्कमूहं व्यधाञ्चके । इति किम्--यद्यस्मादेष नलो भी-