पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६४
नैषधीयचरिते

गच्छेति भ्रूसंज्ञयाकारयन्तीम् । दूत्यपि वलन्त्या भ्रुवाह्वयति । राजगृहद्वारदर्शनेनातसत्वरोऽभूदिति भावः । 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । (खेलथा-)पचाद्यच् । प्रतीहारः, 'उपसर्गस्य घञि-' इति दीर्घः

श्वथैर्दलैः स्तम्भयुगस्य रम्भयोश्चकास्ति चण्डातकमण्डिता स्म सा।
प्रियासखीवास्य मनःस्थितिस्फुरत्सुखागतपश्निततूर्यनिःस्वना ॥७॥

 श्लथैरिति ॥ सा द्वारभूभिः रम्भयोः कदल्योर्द्वारमण्डनार्थं शकुनार्थं च रोपितस्त म्भयुगस्य च्छेदवशाद्वायुवशाद्वा श्ल‌-----र: पन्त्रैः कृत्वा नीललम्बमानचण्डातकसंज्ञकेन वस्त्रेण मण्डिता भूषितास्य नलस्य प्रियाया भैम्याः सखीव चकास्ति स्म । किंभूता सा-अनुरागवशान्मनस्यन्तःकरणे या नलस्य स्थितिस्तया स्फुरन्सदा चित्तनिवासेनोल्लसन्यः सुखागतस्य सुखेनागतस्यागमनस्य संबन्धी प्रश्नः सुखेनागत इत्येवंरूपः स कृतः प्रश्नितःसुखागतप्रश्नतां प्रापितस्तूर्यनिःस्वनो यया । चिरप्रोषिते हि नायके समागच्छति सति प्रेयस्यां त्रपया तूष्णीं स्थितायां चण्डातकमण्डिता तत्सखी सुखागतप्रश्नं करोतीति स्थितिः । अत्र दलानि चण्डातकस्थाने, तूर्यनिःस्वनाश्च सुखागतप्रश्नस्थाने, कदलीस्तम्भावूरुस्थानीयौ । 'अर्धोरुकं वरस्त्रीणां स्याञ्चण्डातमंशुकम्' इत्यमरः । नृत्तोपयुक्तं पुरः पश्चाच्च प्रलम्बिवर्तुलभागद्वयं कदलीसदृशं वस्त्रं नर्तकीभिरन्तः परिधीयमानं चण्डातकम् । प्रश्नितेति, 'तत्करोति-' इति ण्यन्तान्निष्ठा, न तारकादिः॥

विनेतृभर्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः ।
अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोङ्गमः॥९॥

 विनेत्रिति ॥ नरेन्द्रौ भीमनलौ तयोः सेने तयोः समागमो राजगृहद्वारि एवंभूतोऽजायत जातः । किंभूतयोः-विनेतृ शासकं नलभीमलक्षणं भर्तृद्वयं तस्माद्भीतिस्तया दान्तयोः शान्तयोः । ताभ्यां नियमितत्वादकृतकलहादिसंबन्धयोः । अत एव परस्परस्मादन्योन्यस्मादनवाप्तमलब्धं वैशसं मरणं येन । सैन्यद्वयमेलने हि कलहो भवति, परं सौहार्दान्नियमितत्वात्तयोभूदित्यर्थः । तथा--स्फारोऽतिमहान्मुखारवस्यास्फुटवर्णविशेषस्य मुखध्वनेरुद्गम उदयो यत्र ।।

निर्दिश्य बन्धूनित इत्युदीरितं दमेन गत्वार्धपथे कृताहर्णम् ।
विनीतमा द्वारत एव पङ्गतां गतं तमैक्षिष्ट मुदा विदर्भराट् ॥१०॥

 निर्दिश्यति ॥ विदर्भराट् भीमो मुदा उचितो जामातेति हर्षेण तमैक्षिष्ट नलमद्राक्षीत्। किंभूतम्-भीमेनैव संमुखं गत्वा बन्धून्सुहृदो भ्रातॄन्वा स्वमातापितृसंबन्धिनो निर्दिश्याज्ञप्य प्रस्थाप्य इतोऽनेन पथा आगम्यतामित्यादिप्रकारैरुदीरितमुक्तम् । बन्धुमुखेन ज्ञापितमार्गम् । तथा–दमाख्येन भैमीभ्रात्रार्धपथे कृतार्हणा अर्ध्यादिपूजा यस्मै तम्। तथा--अनुद्धतवेषत्वाद्विनीतम् । अत एव-द्वारत आ द्वारसीमामेवावधीकृत्य रथादु-