पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६३
षोडशः सर्गः।


मूरजोभिर्मिश्रा बहूकृता तमिस्रसंपत्तिमिरसंघो यया। महान्धकारेऽपि रत्नदीपप्रकाशैर्भूयिष्ठप्रकाशत्वाददीपीत्यर्थः । महान्धकार एव हि दीपाः शोभन्त इत्यर्थः । राज्ञां सेनामुखाग्रवर्तित्वेन नलस्य चक्रवर्तित्वं सूचितम् । अदीपि, भावे लः॥

विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसात्वरः।
दिदेश दूतान्पथि यान्यथोत्तरं चमूममुष्योपचिकाय तच्चयः ॥५॥

 विदर्भेति ॥ विदर्भराजो यान्क्षितिपानेव-दूताननुक्षणं वारंवारं नलाकारणार्थे दिदेश प्राहिणोत्, तेषां च यः पूर्वमेकः प्रेषितः, तदनन्तरमन्यः, तदनन्तरं चान्यः, एवमुत्तरोतरमनतिक्रम्य पथ्यमुष्य नलस्य चमूमुपचिकाय भूयसीमकृत । किंभूतः-शुभस्य क्षणस्य लग्नसमयस्यासन्नतरत्वेन नैकट्येन सत्वरो वेगवान् । भूयांसो नृपा दूताः प्रेषिता इत्यनेनादरातिशयः सूचितः [१]

हरिद्विपद्वीपिभिरांशुकैर्नभो नभस्वदाध्मापनपीनितैरभूत् ।
तरस्वदश्वध्वजिनीध्वजैर्वन विचित्रचीनाम्बरवल्लि[२]वेल्लितम् ॥ ६ ॥

 हरीति ॥ तरस्वतां वेगवतामश्वानां ध्वजिनी सेना । तरस्वन्तोऽश्वा यस्यां सा वा। तस्या ध्वजभूतैरांशुकैर्वस्त्रनिर्मितैः । तथा-नभस्वता वायुना कृतं यदाध्मापनं परिपूरणं तेन पीनितैः पुष्टीकृतैः सजीवसिंहादितुल्यैर्हरिभिः सिंहः, द्विपैर्हस्तिभिः, दीपिभिर्व्याघै: कृत्वा तत्सेनायामुपरितनं नभ आकाशं वनं विपिनतुल्यमभूद्जनि । किंभूतं वनम्-विचित्राणि नानावर्णानि चीनदेशोत्पन्नानि सूक्ष्माणि ध्वजसंबन्धीनि चाम्बराणि वस्त्राणि तान्येव वल्लयो लतास्ताभिर्वेल्लितं वेष्टितम् । वनेऽपि सिंहादयो वृक्षा लताश्च सन्ति । ध्वजपदेन वृक्षा अपि लक्ष्यन्ते । तरस्वन्तोऽश्वा यस्य नलस्य । तरस्वदश्वा वा । या ध्वजिनी प्रकृतत्वात्तस्यैव । सा ध्वजिनी नभसि नभस्वदाध्मापनपीनितैरांशुकैर्ध्वजैः पताकाभिः कृत्वा वनमभूत् । किंभूता ध्वजिनी-हरिभिरश्वैः, द्विपैर्हस्तिभिः, द्वीपिभिर्द्वीपान्तरवासिभिः सेनाचरीभूतै राजभिरुपलक्षिता । वनमपि सिंहादिभिरुपलक्षितम् । विचित्रेति पूर्ववदिति वा । वनपक्षे-चीनो मृगविशेषः । ऊर्ध्वविस्तृतत्वादम्बरगामिन्यो वल्लयः ॥

भ्रुवाह्वयन्तीं निजतोरणस्रजा गजालिकर्णानिलखेलया ततः ।
ददर्श दूतीमिव भीमजन्मनः स तत्प्रतीहारमहीं महीपतिः ॥७॥

 भुवेति ॥ ततः प्रस्थानानन्तरं स महीपतिनलस्तस्य भीमस्य प्रतीहारमहीं द्वारभूमिं भीमजन्मनो भैम्या दूतीमिव दर्श । किंभूताम्-द्वारे निबद्धा गजास्तेषामालिः पङ्त्किस्तस्याः कर्णानिलेन कृत्वा खेलति चलतीति खेला तया निजया स्वीयया पुष्पाम्रदलरचितया तोरणस्रजा तल्लक्षणया भ्रूवानुरागातिशयोत्सुकतया आह्वयन्तीं शीघ्रमा-


  1. लग्नातिक्रमभीरो राज्ञस्त्वरातिशयोक्तिः-इति जीवातुः
  2. 'वल्लिवेष्टितम्' इति क्वाचित्कः पाठः- इति सुखावबोधा