पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६०
नैषधीयचरिते

दर्भ्या विपुलानुरागेण नलस्य बन्ध(वर्ण)नादिति वा । किं चान्यञ्चअस्माकमयमास्माकः स चासौ नरेन्द्रश्च भीमस्तस्माद्भवतीति भूः भैमी तस्याः सुभगता सौभाग्यं तस्याः संभूतय उत्पत्तये महासमृद्ध्यर्थं वा । इन्द्रस्यावरणेन त्यागेन सापत्न्यामावेन प्रसादितया संतोषितया शच्या विश्राणितं दत्तं 'सुभगा पुत्रवत्यविधवा भव' इत्यादिकमाशीर्वचो लग्नकं प्रतिभूरभूत् । शचीदत्ताशीः सहस्रबलाद्भैम्यपि सुभगेति निश्चितमित्यर्थः। 'आशीःश्रुतिः' इति पाठे आशिषां श्रवणम् । अथवा-आशिष एव सत्यत्वाच्छ्रुतिर्वेद इत्यर्थः । अयं तु पाठः साधीयान् । अनयोरन्योन्यमनुरागोचितं सौभाग्यमपि भविष्यतीत्यनुमानम् । वृत्तम्,'णेरध्ययने वृत्तम्' इति साधुः। आस्माक' इति संबन्धेणि 'तस्मिन्नणि च-' इत्यस्माकादेशः । लग्नकशब्दो नपुंसकेपि । तस्या भैम्या वृत्तानां जातानां वृत्तानां हंसप्रेषणादिचरितानां क्रमाः परिपाट्यस्तैर्निजगद इति वा ॥

आसुत्राममपासनान्मखभुजां भैम्येव राजव्रजे
 तादर्थ्यागमनानुरोधपरया युक्तार्जि लज्जामृजा।
आत्मानं त्रिदशप्रसादफलतां पत्ये विधायानया
 ह्रीरोषापयशःकथानवसरः सृष्टः सुराणामपि ॥ ९१ ॥

 आसुत्राममिति ॥ भैम्या एव आसुत्राममिन्द्रमभिव्याप्य मखभुजां देवानामपासनात्त्यागाद्धेतो राजव्रजे विषये लज्जाया मृजा परिमार्जनं युक्ता आर्जि कृता । यत्कृतं तद्युतमित्यर्थः । यतः-तस्यै इदं तदर्थं तस्य भावस्तादर्थ्यं तेन भैमीनिमित्तेन राज्ञामागमनं तन्निमित्तोऽनुरोधो दाक्षिण्यं तत्र परया । यो हि यदर्थमागच्छति स तस्य दाक्षिण्यं कुर्वल्लज्जां मार्ष्टीत्युचितमेवेत्यर्थः । मदर्थमागतानामेषां मत्प्राप्तिर्नभूत् , लज्जा च जातेत्ययुक्तमेतदिति राजसु सकृपत्वेनेन्द्रादीनपि भैमी नावृणोत् । ततश्च यत्रेन्द्रादयोपि त्यक्तास्तत्र मानुषाणामस्माकं का कथेति तेषां लज्जामार्जनं भैम्यैव युक्तं कृतमिति भावः । स नलोऽर्थः प्रयोजनं यस्य तस्य भावस्तादर्थ्यं तेन नलप्रयोजनत्वेन नलवरणार्थ यदागमनं तत्र यः पक्षपातस्तनिष्ठया नलानुरक्तया । अत एवेन्द्रादीनां त्याग इति वा । तीन्द्रादीनां लज्जा रोषोऽकीर्तिश्च कृतेति देवद्रोहादशुभाशङ्कां परिहरति-अनया भैम्या पत्ये नलायात्मानं त्रिदशप्रसादस्य देवप्रसादस्य फलतां वररूपत्वं विधाय सुराणामिन्द्रादीनामपि ह्रीरोषापयशसां कथायाः कथामात्रस्याप्यनवसरोऽवका- शाभावः सृष्टः कृतः। अस्मानावृणोदिति सजातीयान्प्रति स्वस्त्रियश्च प्रति लज्जा । अस्माकं पश्यतां नलमवृणोदिति रोषः । नलं स्वीकृत्य देवानपमानितवतीत्यपयशः । देवैः प्रसन्नीभूय वरत्वेन नलाय भैमी दत्ता । एतदर्थमेव भूम्यामागताः, न भैम्यभिलाषेणेति लोकप्रतीतेः। भैम्या देवानामपि लज्जादिमार्जनं कृतमिति सर्वानुरागादनयोः शुभपरम्परैव भविता नत्वशुभशङ्कालेशोपीति भावः । 'पत्ये नयन्त्या' इति पाठः समीचीनः । आत्मानं त्रिदशप्रसादफलतां नयन्त्या प्रापयन्त्येत्यर्थः । आसुत्रामम्, अत्राभिविधावव्ययीभावे 'अनश्च' इति टचू । मृजा, भिदादित्वादङ् ॥