पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५२
नैषधीयचरिते

द्योगात्तेऽप्यधिकं शुशुभिर इत्यर्थः । तासामतिसौन्दर्यमुक्तम् । सर्वा अपि तदर्शनार्थमागता इति भावः॥

अजानती ॥ कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम्।
कुचेन तस्मै चलतेऽकरोत्पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥ ७४॥

 अजानतीति ॥ नलस्य विलोकनोत्सुका अत एव समीरणेन धूतार्धं कम्पिताधमपि स्तनांशुकं चोलकाख्यं कुचावरणवस्त्रमजानत्यनावृण्वती कापि पुराङ्गना चलते वरयात्रोन्मुखाय तस्मै नलाय पुरोऽग्रभागे कुचेन कृत्वा मङ्गलकुम्भस्य शुभसूचकशकुनरूपपूर्णकुम्भस्य संभृति संभारमुपदामकरोत् । समोरधूत इत्यनेनाचेतनस्याप्यनु- रागोत्पादना, कुचस्यातिसौन्दर्यमिति च व्यज्यते । वरस्य च पुरः पूर्णकलशदर्शनं शुभाय भवति । तस्मै 'क्रियया यमभिप्रेति स संप्रदानम्' इति संप्रदानत्वम् ॥

सखीं नलं दर्शयमानयाङ्कतो जवादुदस्तस्य करस्य कङ्कणे ।
विषज्य हारैस्त्रुटितैरतर्कितैः कृतं कयापि क्षणलाजमोक्षणम्॥७४॥

 सखीमिति ॥ सोऽयं नलः समागच्छतीत्येवं करेण सखी नलं दर्शयमानया दर्शयन्त्या कयापि प्रदर्शनार्थमेवाङ्कत उत्सङ्गात्सकाशाज्जवाद्वैगादुदस्तस्योत्क्षिप्तस्य करस्य सुवर्णहीरकधारातीक्ष्णाग्रभागे कङ्कणाख्ये भूषणे विषज्य वेगाभिघातवशाल्लगित्वा त्रुटितैश्छिन्नैर्हारैर्नलविलोकनरसादतर्कितैरज्ञातविच्छेदाधःपतनैर्हारैस्तदीयमुक्ताफलैः कृत्वा क्षणं क्षणमात्रम् । क्षण उत्सवस्तत्संबन्धि वा । लाजमोक्षणं कृतम् । अन्यरमणीनिरन्तरक्रियमाणलाजमोक्षणमध्ये मौक्तिकमोक्षणमपि क्षणं तद्भ्रमकार्यभूदित्यर्थः । दर्शयमानया, 'णिचश्च' इति कर्त्रभिप्राये क्रियाफले शानचि हृक्रोरन्यतरस्याम्' इत्यत्र 'अ- भिवादिदृशोरात्मनेपदे च' इति वक्तव्याद्विकर्मकत्वात्सखीमिति कर्मत्वम् । 'सखी' इति च पाठः॥

लसन्नखादर्शमुखाम्बुजस्मितप्रसूनवाणीमधुपाणिपल्लवम् ।
यियासतस्तस्य नृपस्य जज्ञिरे प्रशस्तवस्तूनि तदेव यौवतम् ॥७६॥

 लसदिति ॥ तद्युवतीनां समूहो यौवतमेव यियासतो वरयात्रोन्मुखस्य तस्य नृपस्य प्रशस्तवस्तूनि शुभसूचकमङ्गलद्रव्याणि जज्ञिरे । किंभूतम्-नखा एवादर्शाः, मुखान्येवाम्बुजानि, स्मितान्येव प्रसूनानि पुष्पाणि, वाण्य एव मधूनि पाणय एव पल्लवानि, इतरेतरयोगः समाहारो वा । लसन्तः स्फुरत्कान्तयो नखादर्शादयो यस्य तत् । एवंविधपुरनारीदर्शनाद्भैमीपाणिग्रहो नितरां मम शुभायैव भवितेति तस्य बुद्धिरभूदिति भावः । अतिसौन्दर्यं तासां सूचितम् । 'दध्याज्यादादिदर्शनं शुभावहम्' इति वसन्तराजग्रन्थे ज्ञातव्यम् । आरोप्यमाणस्य प्राधान्याज्जज्ञिरे इति बहुवचनम् ॥

करस्थताम्बूलाजघत्सुरकिका विलोकनकाग्रविलोचनात्पला।
मुखे निचिक्षेप मुखद्विराजतारुषेव लीलाकमलं विलासिनी॥७७॥