पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४९
पञ्चदशः सर्गः

मण्डलाकारकुण्डलद्वयी कपोलपाल्यां प्रशस्तातिस्वच्छनलकपोलयुगे जातौ निजौ स्वीयावनुबिम्बौ तयोः समागमात्संबन्धाद्धेतोश्चित्तभूरथे कामरथे स्फुरल्लसच्चक्रचतुष्कं तस्य चारुतां सौन्दर्यमवाप । रथश्चतुश्चक्रो भवति । पाली फलकम् । चतुष्कं परिमाणोपाधिके सङ्घार्थे 'संख्यायाः संज्ञासङ्घ-' इति कन् । तत्र प्राणिसङ्घे यद्यपि प्रत्ययः, तथाप्यत्रौपचारिकः प्रयोगः॥

श्रितास्य कण्ठं गुरुविप्रवन्दनाद्विनम्रमौलेश्चिबुकाग्रचुम्बिनी।
अवाप मुक्तावलिरास्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥ ६६ ॥

 श्रितेति ॥ अस्य कण्ठे श्रिता मुक्तावलिर्मौक्तिकहारलता आस्यमेव चन्द्रमास्तस्मात्स्रवन्ती सुधा तस्यास्तुन्दिलं स्थूलं बिन्दुवृन्दं तस्य भावस्तत्ता तामवाप । किंभूतस्यगुरूणां पित्रादीनां विप्राणां च वन्दनया विनम्रो मौलिर्यस्य । अत एव । किंभूता हारलता-चुबुकाग्रचुम्बिनी हन्वग्रस्पर्शिनी । मुक्तानां स्थूलत्वं वर्तुलत्वं च सूचितम् । पूर्णचन्द्रदर्शनवन्नलदर्शनाद्गुर्वादीनां प्रीतिर्जातेति भावः ॥

 श्लोकत्रयेण भुजभूषणं वर्णयति-

यतोऽजनि श्रीर्बलवान्बलं द्विषन्बभूव यस्याजिषु वारणेन सः ।
अपूपुरत्तान्कमलार्थिनो घनान्समुद्रभावं स बभार तद्भुजः॥६७॥

 यत इति ॥ स तद्भुजो नलभुजो मुद्राभिरङ्गुलीयकैः सहितः समुद्रस्तस्य भावम् । अथ च दण्ड्यदण्डनादिराजधर्मपरिपालनान्मुद्रा नियमस्तत्साहित्यम् । बभार भेजे । ऊर्मिका दधारेति भावः। स कः :-यतो यस्माद्भुजाद्धेतोः श्रीः शोभा राज्यलक्ष्मीर्वा । अजन्युत्पन्ना। तथा आजिषु यस्य भुजस्य वारणेन यत्कर्तृकेण शत्रुविमर्दनेन कृत्वा बलं शत्रुसैन्यं द्विषन्पराभावुकः सन् स नलो बलवानुत्साहयुक्तः शक्तियुक्तो वा बभूव । यत्कृतनिवारणेन बलवान्सन् शत्रुसैन्यं पराभावुकोऽभूदिति वा । वाशब्दश्चार्थे । ततश्व-आजिषु बलं द्विषन्स नलो यस्य च यत्कर्तृकेण रणेन सङ्ग्रामेण बलवानभूदिति वा । शत्रुसैन्यं द्विषन्स प्रसिद्धोऽतिबलोऽपि शत्रः सङ्ग्रामेषु यस्य कर्मभूतस्य वारणे निराकरणे बलवान्न बभूवेति वा । आजिषु बलं द्विषन्स प्रसिद्धः शत्रुर्यस्य सङ्ग्रामे विषये बलवान्नाभूदिति वा । वारणानामिनः स्वामी वारणेनश्चासौ स चातिप्रसिद्ध ऐरावतः स वारणेनसो यस्य नलभुजस्य बलं द्विषन्यद्वलेन सह स्पर्धमानः सङ्ग्रामेषु बलवानभूत् । हीनबलोऽप्युत्तमैतद्भुजबलस्पर्धया बलवत्त्वप्रतिष्ठां लेभे । 'वरं विरोधोऽपि समं महात्मभिः' इति न्यायादिति भावः। सङ्ग्रामेषु बलं दैत्यं पराभावुकः स इन्द्रोऽपि यस्याजिषु येन भुजेन सह सङ्ग्रामे बलवान्नाभूत् । इन्द्रादप्ययं बलीति भाव इति वा । वबयोरभेदाद्वलनं वलः पलायनं तद्वान् । सङ्ग्रामे यत्कृतेन निवारणेन स बलारातिरपि बलवान्पलायनपरोऽभूत्, न तु स्थातुं शक्त इति वा । यः करस्तानतिप्रसिद्धान्धनान्बहून्कमलां लक्ष्मीमर्थयन्त एवंशीलान्याचकानपूपुरत्पूर्णीचकार । अतिवदान्य इत्यर्थः । बहून्सुन्दरवधूकाङ्क्षिणो वरान्यः पपार । बहवो ब्राह्मणा येन विवाहिता इत्यर्थ इति वा । अथ च-सागरत्वं भेजे । यस्मात्सागराल्लक्ष्मीर्जाता । यदुत्पन्नेन वारणेनैरा-