पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४८
नैषधीयचरिते

त्रेण भैमी कामवशा अविष्यतीति भावः । अन्योपि हंसं हन्तुमिच्छन्क्षत्रियो धनुषि गुलिकां संधत्ते । राज्ञश्च तिलको वृत्तः। 'वर्तुलो नृपवैश्ययोः' इति वचनात् । मानसौकस्त्वोत्प्रेक्षायां खलु । 'चित्रं स्यादद्भुतालेख्यतिलकेषु' इति विश्वः । चित्रं च तद्रूपं चेति कर्मधारयादिनिर्वा । 'चित्ररूपता' इति पाठः। तिलकस्वरूपतेत्यर्थः ॥

अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्रेण सरोजतर्जिना।
श्रियं श्रिता काचन तारकासखी कृता शशाङ्कस्य तयाङ्कवर्तिनी॥

 अचुम्बीति ॥ वृत्तत्वादिना गुणेन सरोजतर्जिना कमलजैत्रेण तदधिकेन । अथ च कमलतर्जनवशादेव चन्द्ररूपेण नलीयेन वक्रेण या चन्दनबिन्दुमण्डली मण्डलाकारश्चन्दनतिलकोऽचुम्बि धृता । तया चन्दनयिन्दुमण्डल्या चन्द्रस्यैव सखीं श्रियं श्रिता सलक्ष्मीका काचन रोहिण्यादिमध्ये तारका शशाङ्कस्याङ्कवर्तिनी मध्यवर्तिनी कृता॥ तया चन्द्रमध्यवर्तिनी काचन सश्रीका तारका स्वस्य सखी सहचरी कृता । सा तत्तुल्या जातेत्यर्थ इति वा । का च कापि तारका. असखी न कृता, किंतु या काचन चन्द्राङ्कवर्तिनी भवेत् , सा सर्वापि सख्येव कृतेति वा । सरोजतर्जिनश्चन्द्रस्य मध्यवर्तिनी रोहिण्यादिर्यदि भवेत् , तर्हि चन्दनवृत्ततिलकयुक्तः सरोजतर्जी नलमुखचन्द्रस्तत्तुल्यो भवेत् , नत्वेवमित्यर्थः । तदा तन्मुखं पद्मचन्द्राभ्यामधिकतमं जातमिति भावः। 'कांचन' इति पाठेऽतिशयितश्रियं श्रिता ॥

न यावदग्निभ्रममेत्युदूढतां नलस्य भैमीति हरेर्दुराशया।
स बिन्दुरिन्दुः प्रहितः किमस्य सा न वेति भाले पठितुं लिपीमिव

 नेति ॥ हरेरिन्द्रस्य इति एवंरूपया दुराशयानुपपद्यमानासंभावितचिन्तया 'अस्य नलस्य भाले ललाटे सा भैमी किमस्ति न वा इति संदेहरूपां ब्राह्मीं लिपीमक्षरपङ्क्तिं संदेहनिरासाय स्पष्टं पठितुं वाचयितुं स चन्दनतिलकबिन्दुरेव इन्दुश्चन्द्रः प्रहितः प्रेषित इवेत्युत्प्रेक्षा । इति किम्-भैमी यावदग्निभ्रममग्निप्रदक्षिणीकरणपर्यन्तं नलस्योदूढतां परिणीततां भार्यात्वं न एति गच्छतीति । यद्यपि स्वयंवरो जातः, तथापि यावत्सप्त‘पदी नास्ति तावद्भैमी नलस्य भार्या न भवतीति दुराशया स बिन्दुश्चन्द्र एव प्रहितः किम् । 'पतित्वं सप्तमे पदे' इति स्मृतिप्रामाण्याद्यावदग्निभ्रमणं नास्ति तावद्भैमी नलसत्तां नैति । ब्रह्मलिपेर्निश्चयं चन्द्रद्वारा बुद्ध्वा तत्प्राप्त्यर्थं वयं प्रयतामह इति दुराशया लिपिवाचनार्थं प्रेषितश्चन्द्रो ललाटे स्थितः । चन्द्र इव तिलको रेज इति भावः । यावदग्निभ्रममव्ययीभावः । लिपी, 'कृदिकारात्-' इतीकारः ॥

 कर्णभूषणं वर्णयति-

कपोलपालीजनिजानुबिम्बयोः समागमात्कुण्डलमण्डलद्वयी।
नलस्य तत्कालमवाप चित्तभूरथस्फुरच्चक्रचतुष्कचारुताम् ॥६५॥

 कपोलेति ॥ तत्कालं तस्मिन्मण्डनसमये नलस्य कुण्डलमण्डलद्धयी कर्णभूषणीभूत-