पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४३
पञ्चदशः सर्गः।


निषिद्धार्थमिति चेत्यर्थः । किमूहिरे' इति पाठे किमर्थं धृतानि न जाने इति शेष इति वा॥

 भूषणकान्त्युत्कर्षं वर्णयति-

क्रमाधिकामुत्तरमुत्तरं श्रियं पुपोष यां भूषणचुम्बनैरियम् ।
पुरः पुरस्तस्थुषि रामणीयके तया बबाधेऽवधिबुद्धिधोरणिः॥४९॥

 क्रमेति ॥ इयं दमयन्ती भूषणचुम्बनैर्भूषणसंबन्धैः कृत्वा उत्तरमुत्तरं यथा स्यात्तथा अग्रेऽग्रे क्रमेण पूर्वभूषणापेक्षया उत्तरोत्तरभूषणेनाधिकामतिशयितां यां श्रियं पुपोष तयालंकारशोभया रामणीयके सौन्दर्ये पुरःपुरस्तस्थुषि स्थिरतरे सति अवधिवुद्धेरियत्ताबुद्धेर्धोरणिः परम्परा बबाधे बाधिता । इतोऽन्यद्रामणीयकं नास्तीति यदि बुद्धिर्भवेत् , तदावधिर्भवेत् । पूर्वपूर्वरामणीयकेयत्ताबाधेन रामणीयकान्तरे पुरः पुरः स्फुरत्यवधिर्वाधित इत्यर्थः । तस्या भूषणशोभा निरवधिरभूदिति भावः। धोरणिरिति देश्यशब्दः॥

मणीसनाभौ मुकुरस्य मण्डले बभौ निजास्यप्रतिबिम्बदर्शिनी।
विधोरदूरं स्वमुखं विधाय सा निरूपयन्तीव विशेषमेतयोः॥५०॥

 मणीति ॥ मणीसनाभौ मौक्तिकादिरत्नतुल्येऽतिस्वच्छे मुकुरस्य मण्डले दर्पणतले पुनर्निजास्यस्य स्वमुखस्य दर्पणसंक्रान्तप्रतिबिम्बं पश्यतीत्येवंशीला दशिनी सा भैमी स्वमुखं विधोर्दर्पणरूपस्य, प्रतिबिम्बरूपस्य वा, चन्द्रस्यादूरं निकटवर्ति विधाय कृत्वा एतयोर्मुखचन्द्रयोविशेषं तारतम्यं निरूपयन्तीव विचारयन्तीव बभौ । संनिधौ हि विशेषः स्फुरति । बिम्बापेक्षया प्रतिबिम्बस्य न्यूनत्वात्तस्यैव चन्द्रत्वमिति विशेषो निरूपित इति भावः। भूषणानन्तरमादर्शविलोकनमिति जातिः । प्रतिबिम्बदर्शिनी 'बहुलमाभीक्ष्ण्ये' इति णिनिः॥

जितस्तदास्येन कलानिधिर्दधे विचन्द्रधीसाक्षिकमायकायताम् ।
तथापि जिग्ये युगपत्सखीयुगप्रदर्शितादर्शबहूभविष्णुना ॥ ५१ ॥

 जित इति ॥ तस्या आस्येन जितः कलानिधिश्चन्द्रो नेत्रचिपटीकरणादिनिमित्ताद्धस्तस्थितादर्शनिमित्ताद्वा द्वौ चन्द्राविति धीर्यस्य पुरुषस्य स एव साक्षी साक्षाद्रुष्टा यस्याः सा माया यस्यैवंभूतः कायो यस्य चन्द्रस्य तस्य भावस्तत्ता तां दधे बभार । एकत्वादहं भैमीमुखेन जित इति मायामयानेककायत्वं चन्द्रेण धृतमित्यर्थः । अत्र पूर्वोक्तप्रकारद्वयेन साक्षिणौ द्वौ चन्द्राविति बुद्धिरेव प्रमाणम् । कलानिधिपदेनानेकशिल्पजत्वान्मायिककायव्यूहनिर्माणकलामपि वेत्तीति सूचितम् ।द्वाभ्यामेकजयस्य सुकरत्वात्करस्थि- तादर्शच्छलेनानेककायत्वं यद्यप्यङ्गीकृतम् , तथापि युगपत्समकालं सखीयुगेन प्रकर्षेण दर्शिताभ्यामादर्शाभ्यां कृत्वा तयोर्वा अबहुना एकेनापि बहूभविष्णुना बहुभवनशीलेन सता तन्मुखेन चन्द्रो जिग्ये जित एव । हस्तस्थदर्पणसहितसखीदर्पणद्वयप्रतिफलित.