पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
प्रथमः सर्गः।

न्नपि दयावति कस्यचित् कष्टां दशां शृण्वति सति अनिच्छया किमनेनेति करं प्रसार्य वारयति । यद्वा-अनास्थया संसारानित्यतयाभिनयवशात्करं प्रसारयतीति । वने पिकाः कूजन्ति भृङ्गा हुंकारं कुर्वन्ति करुणपुष्पाणि विकसन्ति कमलानि चोन्मीलन्ति । एतच्च दृष्ट्वा विरहिणो व्यथन्ते इति भावः । किमिदं वनं शृणोति दुःखवार्तामितीव पुष्पविकासव्याजेन करं प्रसारयन्तीति वार्थः । आस्था इत्यत्र 'आतश्चोपसर्गे' इत्यङ् । दून इति दीर्घाद्यूङः स्वादि(त्वेनौदि-)त्त्वान्निष्ठानः । करुणो वृक्षः पक्षे करुणा दया ॥

रसालसालः समदृश्यतामुना स्फुरद्द्विरेफारवरोषहुंकृतिः ।
समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्जनाभियम् ॥८९॥

 रसालेति ॥ अमुना नलेन रसाल आम्रलक्षणः सालो वृक्षः समदृश्यत दृष्टः । किंभूतः-स्फुरन्तो भ्रमन्तो द्विरेफा भ्रमरास्तेषामारव एव रोषहुंकृतिः क्रोधहुंकारो यस्य । किंकुर्वन्निव-समीरेण वायुना लोलैर्मुकुलैः कृत्वा वियोगिने विरहिणे जनाय तर्जनाया भर्त्सनाया भीर्भयं तां दित्सन्निव दातुमिच्छन्निव । अन्योऽपि हुंकृत्य बलेनाङ्गुल्यादिना तर्जयति । रसालशब्दस्तत्पुष्पे वर्तते । दित्सन्निति ददातेः सनि द्विर्वचनम् 'सनि मीमा-' इतीसू 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः 'सः स्यार्धधातुके' इति तः। ‘भयभीत-' इत्यादि वक्तव्यात्तर्जनाभियमिति समासः॥

दिनेदिने त्वं तनुरेधि रेऽधिकं पुनःपुनर्मूर्छ च तापमृच्छ च ।
इतीव पान्थाञ्शपतः पिकान्द्विजान्सखेदमैक्षिष्ट स लौहितेक्षणान॥

 दिनेदिन इति ॥ स नलः पिकान् द्विजान्पक्षिणः ब्राह्मणांश्च सखेदं सोद्वेगमैक्षिष्ट ददर्श । किंभूतानिव-इति पूर्वोक्तप्रकारेण पान्थाञ्जनाञ्शपत इव पान्थेभ्यः शापं ददत इव । यतो लोहितेक्षणान्मत्तत्वाद्रक्तनेत्रान् । इतीति किम्-रे पान्थ, त्वं दिनेदिने अधिकं भृशं तनुः कृश एधि भव, पुनस्त्वं मूर्छ मूर्छां प्राप्नुहि । तथा त्वं तापं सर्वाङ्गतापमृच्छ लभस्व च । पिकः स्वभावाद्रक्तलोचनः। पिकशब्दं श्रुत्वा पान्थानां मूर्छा तापश्च भवति । क्रुद्धा ब्राह्मणा अपि रक्तनेत्राः सन्तः शापं ददते । रे इत्यनादरेऽव्ययम् । एधि । अस्तेर्लोटि हेः 'हुझल्भ्यो हे:-' इति धौ ‘ध्वसोरेद्धौ-' इत्येत्त्वे 'श्नसोः-' इत्यल्लोपश्च । ऋच्छ इत्यर्तेर्हौ 'पाघ्रा-' इत्यादिना ऋच्छादेशे 'अतो हेः' इति हेर्लुक् । ऋच्छेर्वा । पान्थान्नित्यं पन्थानं गच्छन्तीत्यर्थे 'पन्थो ण नित्यम्' इति णः, पन्थादेशश्च। ज्ञीप्स्यमानत्वाभावात्पान्थानिति द्वितीया । उपालम्भाभावाच्च 'शपतः' इति तङ्ङभावः ॥

अलिस्रजा कुड्मलमुच्चशेखरं निपीय चाम्पेयमधीरया धिया ।
स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥ ९१ ॥

१ 'ल्वादिभ्यश्च' इति निष्ठानत्वम् इति मल्लिनाथस्य तु प्रमाद एव । दूङो ल्वादित्वाभावात् । २ 'अत्र समासोक्तिरूपकप्रतीयमानोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । ३ 'अत्रानुप्रासोत्प्रेक्षालंकारौ' इति साहित्यविद्याधरी । 'द्विरेफेत्यादिरूपकोत्थापितेयं तर्जनामयजननोत्प्रेक्षेति संकरः' इति जीवातुः ।