पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
नैषधीयचरिते

न विद्यते बालता बालत्वं यस्याः। तरुणी इत्यर्थः । सा यथा लतासदृशी तन्वी कस्तूर्यादिगन्धयुक्तेन नायकेन चुम्बिता रोमाञ्चयुक्ताङ्गी ईषद्धास्येन शोभितकुड्मलाकारदन्ता ईषत्सात्विककम्पयुक्ता केनचित्कौतुकिना परस्त्रीत्वाद्भयम्, सौन्दर्यादादरस्ताभ्यां युक्तेन दृश्यते । यद्वा-वहतीति वहः, बालतागन्धस्य शैशवलेशस्य वहः, नैवंभूतः-नबालतागन्धवहस्तरुणस्तेन चुम्बिता काचित् नवा नवोढा लतासदृशी तन्वी नवोढत्वात्सकम्पा । नकारस्य निषेधार्थस्य समासत्वान्नलोपाभावः। संयोगोपधत्वेऽपि 'अङ्गगात्रकण्ठेभ्यस्त्विष्यते' इति ङीष् ॥

विचिन्वतीः पान्थपतङ्गहिंसनैरपुण्यकाण्यलिकज्जलच्छलात् ।
व्यलोकयञ्चम्पककोरकावलीः स शम्बरारेर्बलिदीपिका इव॥८६॥

 विचिन्वतीरिति ॥ स नलः चम्पककोरकावलीश्चम्पककुड्मलपङ्क्तीर्व्यलोकयद्ददर्श। का इव-शम्बरारेः कामस्य बलिदीपिका बल्यर्थदीपिका इव । किंभूताश्चम्पककोरकावली:-पान्था एव पतङ्गाः शलभास्तेषां हिंसनैर्मारणैः अलिकज्जलच्छलात् अलयो भ्रमरा एव कज्जलं तस्य छलाद्व्याजादपुण्यकर्माणि विचिन्वतीरर्जयन्तीः। कामोद्दीपकानि चम्पकानि दृष्ट्वा विरहिणो म्रियन्ते । 'पन्थो ण नित्यम्' इति णे पान्थः । चम्पकोपरि भ्रमरो न तिष्ठतीति कश्चित् । तत्र तिष्ठति, परंतु म्रियते इति प्रामाणिकाः ॥

अमन्यतासौ कुसुमेषु गर्भगं परागमन्धंकरणं वियोगिनाम् ।
स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु संगतम् ॥८७॥

अमन्यतेति ॥ असौ नलः कुसुमेषु गर्भगमन्तरप्रदेशगतं पुरा पूर्वं स्मरेण पुरारये शिवाय मुक्तेषु पुष्परूपेषु शरेषु संगतं लग्नं तस्य शिवस्याङ्कलग्नं भस्म इवामन्यतातर्कयत् । किंभूतम्-वियोगिनामन्धंकरणं नेत्रोपघातकम् । भस्मनान्धत्वं भवति । अन्धंकरणमिति 'आढ्यसुभगस्थूल-' इति ख्युन् । 'अरुर्द्विष-' इति मुम् ॥

पिकाद्वने शृण्वति भृङ्गहुंकृतैर्दशामुदञ्चत्करुणे वियोगिनाम् ।
अनास्थया सूनकरप्रसारिणीं ददर्श दूनस्थलपद्मिनी नलः ॥८८॥

 पिकादिति ॥ दूनः संतप्तो नलः स्थलपद्मिनीं ददर्श । कस्मिन्सति-वने पिकात्कोकिलाद्वियोगिनां दशामवस्थां भृङ्गाणां भ्रमराणां हुंकृतैर्हुंकारैः कृत्वा शृण्वति सति । किंभूते वने-उदञ्चन्तो विकासं प्राप्नुवन्तः करुणसंज्ञका वृक्षा यस्मिन् । किंभूताम्- अनास्थया नलगताऽधीरतयाऽभिनयवशात् सूनानि पुष्पाणि कमलानि तल्लक्षणकरान्हस्तान्प्रसारयतीत्येवंशीला ताम्, अनास्थयानादरेणापश्यदिति वा । अन्यस्मि-


१ 'अत्र प्रस्तुतलताविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरलंकारः । 'विशेषणस्य तौल्येन यत्र प्रस्तुतवर्णनम् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते' इति लक्षणात् ।' इति जीवातुः । २ 'अत्र रूपकापह्नुतिरुपमालंकारः' इति साहित्यविद्याधरी। ३ 'अत्रानुप्रासोत्प्रेक्षालंकारौ' इति साहित्यविद्याधरी।