पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३०
नैषधीयचरिते

स्मार्तांश्च विधीन्विदध्महे कुर्मह इति । एवमादिश्य तदानीमेव निर्गत इत्यर्थः । पाणिग्रहमङ्गलोचितयोषिदाचारज्ञा वृद्धाः सुवासिनीविशेषणं वा । समयस्पृशः 'स्पृशोनुदके-' इति क्विन् । वयं 'अस्मदो द्वयोश्च' इति बहुवचनम् ॥

निरीय भूपेन निरीक्षितानना शशंस मौहूर्तिकसंसदंशकम् ।
गुणैररीणैरुदयास्तनिस्तुषं तदा स दातुं तनयां प्रचक्रमे ॥५॥

 निरीयेति ॥ भूपेन भीमेन निरीय अन्तःपुरान्निर्गत्य निरीक्षितानना मौहूर्तिकानां ज्यौतिषिकानां संसत्सभा अंशकं वैवाहिकं लग्नं शशंस । स च भीमस्तदा तस्मिन्नंशके तनयां नलाय दातुं प्रचक्रमे । मुहूर्तविलम्बानुरोधेन प्राक्कालिकाञ्श्रौतान्मार्तान् विधीनचीकरदित्यर्थः । किंभूतमंशकम्-अरीणैः संपूर्णैः जामित्रगुणैरुपलक्षितम् । तथाशुक्रगुर्वाद्युद- -यास्तमयप्रयुक्तदोषैर्निस्तुषं रहितम् । ग्रहाणां गुणदोषादिकं ज्योतिःशास्त्रादवगन्तव्यम् । निरीय 'ईङ् गतौ' । मौहूर्तिकाः 'मुहूर्तं वेद' इत्यर्थे 'क्रतूक्थादि-' इत्युक्थादित्वाट्ठक् । अंशमेव अंशकम् स्वार्थे कन् । अरीणैः स्वादित्वात् 'ओदितश्च' इति निष्ठानत्वम् । निर्गतं तुषात् । तुषो दोषलेशः॥

अथावदद्दूतमुखः स नैषधं कुलं च बाला च ममानुकम्प्यताम् ।
सपल्लवत्वद्य मनोरथाङ्कुरश्चिरेण नस्त्वच्चरणोदकैरिति ॥ ९॥

 अथेति ॥ अथ लग्नांशके संनिहिते दूत एव मुखं यस्य स भीमः नैषधमित्यवदत् । इति किम् -भवता मम कुलं च बाला च कृपया अनुकम्प्यतामङ्गीक्रियताम् । बालायामनुगृहीतायां सर्वोपि मम वंशोऽनुगृहीतः स्यादित्यर्थः । तथा-चिरेण चिरंतनो नोऽस्माकं सर्वेषां स प्रसिद्धः त्वत्संबन्धविषयो मनोरथरूपोऽङ्कुरोद्यास्मिन्दिने त्वच्चरणोदकैस्त्वदीयचरणक्षालनोदकैः पल्लवतु पल्लव इवाचरतु । पल्लवितो भवत्वित्यर्थः । पल्लवसहितो भवत्वेकं वा पदम् । कंचन संदेशहरं प्रेष्य तं सविनयमाकारयति स्मेति भावः । अन्यत्रापि चिरसंचितोऽङ्कुरो जलैः पल्लवितो भवति।सपल्लवतु आचारे क्विपू॥

तथोत्थितं भीमवचःप्रतिध्वनिं निपीय दूतस्य स वक्रगह्वरात् ।
व्रजामि वन्दे चरणौ गुरोरिति ब्रुवन्प्रदाय प्रजिघाय तं बहु॥१०॥

 तथेति ॥ स नलो दूतस्य वाक्रादेव गह्वरात्कंदरात्तथा पूर्वोक्तप्रकारेण यथा भीमेनोक्तं तथैवोदितं भीमवचसः प्रतिध्वनिं प्रतिशब्दं निपीय सादरमाकर्ण्येति ब्रुवन्तस्मै दूताय बहु प्रचुरं वस्त्रालंकारादि प्रदाय तं प्रजिघाय प्राहिणोत् । इति किम्-हे. दूत, अहं व्रजामि इदानीमेव गच्छामि गत्वा च गुरोः श्वशुरस्य चरणौ वन्दे नमस्करोमीति। प्रतिशब्दत्वरूपणेन राजादेशानुवादस्य न्यूनाधिकशङ्का परिहृता । व्रजामि वन्दे च 'वर्तमानसामीप्ये-' इति भविष्यति लट् ॥

निपीतदूतालपितस्ततो नलं विदर्भभर्तागमयांबभूव सः।
निशावसाने श्रुतताम्रचूडवाग्यथा रथाङ्गस्तपनं धृतादरः ॥११॥