पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२८
नैषधीयचरिते

(ऽ.) कर्मणि घञ् । 'वितेनिवान्' इति पाठे त्यागमिति भावे घञ् । दानं चकारेत्यर्थः । निकायमिति 'निवासचिति-' इति घञ् , आदेश्च कः।चिकायेति 'विभाषा चेः' इति कुत्वम् ॥

त्रपास्य न स्यात्सदसि स्त्रियान्वयात्कुतोतिरूपः सुखभाजनं जनः।
अमूदृशी तत्कविबन्दिवर्णनैरवाक्कृता राजकरञ्जिलोकवाक् ॥ ३॥

 त्रपेति ॥ असाविव दृश्यत इति अमूदृशी एतत्सदृशी अन्यापि भैम्यवृतानि राजकानि नृपसङ्घास्तानि रञ्जयतीत्येवंशीलास्तदनुजीविनो लोकास्तेषां मृषावाक् दोषारोपणरूपा तस्य नलस्य तयोर्वा भैमीनलयोः कवयः प्रबन्धकर्तारः, बन्दिनश्च प्राकृतादिभाषावर्णनचतुराः, तेषां वर्णनैः कर्तृभिरवाक्कृता तिरस्कृता । तेषां प्रचुरतारस्वरवर्णनतिरोहितत्वात्सा वाक् ताभ्यां नाकर्णितैवेत्यर्थः । वाक् अवाक् कृता अशब्दरूपा कृता ध्वनिमात्रं श्रुतम्, नत्वर्थव्यञ्जकः शब्दः श्रुत इति वा । असौ का-सदसि नानादेशमिलितजनसमाजे तत्समक्षं स्त्रिया अन्वयात्संबन्धादस्य नलस्य लज्जा न स्यात् । अपितु लज्जया भवितुं युक्तम् । नच तया जातम् । इति निर्लज्जोयमित्येका वाक् । तथा-अतिरूपः सुन्दरो जनः श्रीरामचन्द्रजानकीवत्कुतः सुखभाजनं सुखस्थानम् । अपितु-रूपवाञ्जनो दुःख्येवेति दृष्टत्वात्सुरूपयोरनयोरपि दुःखं भवितैवेत्यन्या। वाक् अवाक् कृतेति विरोधाभासः। सदसि स्त्रिया अन्वयाद्धेतोर्लज्जास्य न स्यात्, अन्यस्य तु स्यादेवेत्ययं निर्लज्जः । अतिसुरूपश्च भवादृशो जनो भैमीप्राप्तिजनितसुखभाजनं कुतः, आप तु न । रूपवान्हि रम्यां प्रियां न लभते अतो रूपवन्तो भवन्तोऽपि रम्यां प्रियां नालभन्त इति स्वं स्वं प्रभुं प्रति सेवकवचनमिति वा अतिरूपो भैमीलक्षणो जनः कुतः सुखभाजनम् । अपितु न । एवंभूतानां राज्ञामप्राप्तेरिति वा । अमूदृशी, अदस्शब्दे उपपदे 'त्यदादिषु दृशः-' इति कञि 'दृग्दृशवतुष्वा सर्वनाम्नः' इत्यात्वे 'अदसोऽसेर्दादुदोमः' इत्यूत्वे मत्वे च 'टिड्ढाणञ्' इति ङीप् । अवाक् कृता इति पदद्वयम् ॥

 राजकीयैर्निन्दायां कृतायामपि तयोर्निर्दोषत्वमाह-

अदोषतामेव सतां विवृण्वते द्विषां मृषादोषकणाधिरोपणाः ।
न जातु सत्ये सति दूषणे भवेदलीकमाधातुमवद्यमुद्यमः ॥ ४ ॥

 अदोषतामिति ॥ द्विषां मृषा अविद्यमानस्य दोषकणस्य दोषलेशस्य अधिरोपणा आरोपाः सतामदोषतामेव निर्दोषत्वमेव विवृण्वते प्राकट्येन कथयन्ति । कथम्-यतः सत्ये दूषणे सति विद्यमाने अलीकमसत्यमवद्यं आधातुमारोपयितुं खलानां जातु कदाचिदपि उद्यमः प्रयत्नारम्भो न भवेत् । सति दोषे विद्यमानत्वादेव नारोपः । अयं तावदारोप्यते, ततश्चासति दोषे तदारोपणं निर्दोषतामेव व्यनक्तीत्युभयथापि परदोषोद्धाटनमनुचितमित्यर्थः । सर्वथा तौ निर्दोषावेव इति भावः। सत्ये दूषणे सति खलानामलीकं दोषमाधातुमुद्यमः कदाचिन्न भवेत् । अपितु सत्यदोषाभावे अलीकमपि दोषं


१ ' अपाकृता' इति जीवातुसंमतः पाठः