पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२६
नैषधीयचरिते

 स्वस्येति ॥ तदा स्वर्गगमनसमये अमुं नृपतिं नलं त्यजद्भिरमरैरंशस्य स्वावयवस्य छिदा कर्तनं तया यत्कदनं दुःखं तदेवाध्यगामि प्रापि । यतः-स्वस्य इन्द्रादेरंशम् । लोकपालांशत्वाद्राज्ञः । स्वहस्तादिकर्तने याद्दग्दुःखं भवति, तादृशमेव तेषां नलपरित्यागे जातमिति भावः। यान्ती स्वर्गं प्रति गच्छन्ती वाग्देवताऽपि भैमीं निवृत्य निवृत्य पुनः पुनः व्याघुट्य वलितग्रीवं यथा तथा पश्यति स्म । किंभूताम्-निजविभ्र- माणां स्वीयवचनचातुर्यादिविलासानां धाम स्थानभूताम् । किंभूता-उत्का कियत्सहवासमात्रानुभूतगुणगणप्रेमभरतया सोत्कण्ठा । परित्यक्तुमशक्तेत्यर्थः । अन्योप्यन्यत्र गच्छन्निजं विलासगृहमुत्कः सन्निवृत्य पश्यति।पुरुषाणांपुरुषेषु,स्त्रीणांच स्त्रीषु सौहार्दमिति नलपरित्यागे तेषाम् , भैमीपरित्यागे च देव्याः सोत्कण्ठता युक्ता । निजं सारस्वतं विलासगृहं यान्ती इति वा । 'छिदा' इति ‘षिद्भिदादिभ्योऽङ्’॥

सानन्दं तनुजाविवाहनमहे भीमः स भूमीपति-
 र्वैदर्भीनिषधेश्वरौ नृपजनानिष्टोक्तिनिर्मृष्ट्ये ।
 स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमा-
 देको द्वौ बहवश्चकार सृजतः स्मातेनिरे मङ्गलम् ॥१००॥

 सानन्दमिति ॥ स भीम एको भूमीपती राजा तनुजाया भैम्या विवाहनं पाणिग्रहणं तल्लक्षणे महे महोत्सवे विषये माङ्गलिकतूर्यवादनादिकं मङ्गलं सानन्दं सहर्ष यथातथा चकार । वैदर्भीनिषधेश्वरौ च द्वौ क्षणमात्रं तत्र स्थितावेवासूयका नृपजना राजसंघाः। नृपाणां वा ये जनाः सेवकास्तेषामनिष्टोक्तयः कर्णकठोराणि यानि मृषादोषारोपणवचनानि तासां नितरां मृष्टये परिमार्जनायाशुभवचनानाकर्णनाय नृत्तगीतवाद्यबहुलं प्रेक्षणीयकादिदर्शनश्रवणादिरूपं मङ्गलं सृजतः स्म चक्राते । 'अमङ्गलं नाकर्णनीयम्' इति वैदर्भीनिषधेश्वरौ गीतवाद्याद्याकर्णनव्याजेनामङ्गलपरिहारं चक्रतुः । बहवः सर्वे धराधिपाश्च राजानोऽपि स्वानि स्वानि शिबिराणि सेनानिवेशानुद्दिश्य लक्षीकृत्य यान्तो गच्छन्तःसन्तःप्राप्तभैमीसदृशदयिताः पटहनिस्वनादिरूपं मङ्गलमातेनिरे चक्रुः। वाद्यानि वादयामासुरित्यर्थः । एतच्च सर्वं क्रमात् । पूर्वं भीमश्चकार, अनन्तरं भैमीनलौ चक्राते, ततो राजानश्चक्रुरिति क्रमः । किंच-एकः द्वौ, बहवः, इति क्रमः । तथा-चकार, सृजतः स्म, आतेनिरे इति च क्रमः । सानन्दमिति सर्वत्र वा संबन्धनीयम् । श्रेष्ठजामातृलाभाद्भीमस्य हर्षः परस्परलाभाद्भैमीनलयोः, सुन्दरभैमीसखीलाभाद्राज्ञामिति ज्ञेयम् । विवाहनं ण्यन्तान्नपुंसके भावे 'ल्युट् च' इति ल्युट् ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातस्तस्य चतुर्दशः शरदिजज्योत्स्नाच्छसूक्तेमर्हा-
 काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गाज्ज्वलः॥१४॥