अस्त्विति ॥ हे नल, त्वया साधितं राद्धमन्नं तण्डुलादि, मीना मत्स्याः, रसाः प्रपानकादयो दुग्धादयो वा त आदयो मुख्या यस्य एवंभूतमन्यदपि पाकयोग्यं भक्ष्य पीयूषरसममृतास्वादमप्यतिशेतेऽतिक्रामति तच्छीलमेवंभूतमस्तु भवतात् । यद्यस्माद्धे भूप, तव सूपकारक्रियासु पाचकनिष्पादितान्नरन्धनकृतिषु कौतुकेन शालते तच्छीलमेवंविधं शीलं स्वभावं विद्नो जानीमः । तस्मात्तुभ्यमीटृशो वरो दत्त इत्यर्थः । 'चित्तम्' इत्यपि पाठः। विद्मः, 'अस्मदो द्वयोश्च' इति बहुवचनम् ॥
वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट ध[१]राधिराजम् । |
वैवस्वतोपीति ॥ वैवस्वतः सूर्यपुत्रो यमोपि देवः स्वत एव स्वयमेव तुष्टः सन् धराधिराजं नलमित्याचष्टावोचत् । इति किम्-हे नल, तवावदानैर्दूत्यादिकर्मभिर्यागीयपशोरङ्गभावैर्वा निमित्तैरियं मदीया रसना जिह्वा वरप्रदानाय तुभ्यं वरं दातुं चिरमुटुरोत्सुका कदा वरं दास्यामीति सोत्कण्ठा विद्यत इति । अहं वरं ददामीत्यर्थः॥
सर्वाणि शस्त्राणि तवाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे । |
सर्वाणीति ॥ हे नल, सर्वाणि मन्त्रप्रयोज्यब्रह्मास्त्रादिसहितान्यभ्याससाध्यानि कुन्तखाङ्गदीनि शस्त्रीण्यङ्गानां मोक्षोपसंहारादीनां मन्त्रदेवतादीनां चक्रः समूहैः त्वय्याविर्भवन्तु प्रकटीभवन्तु । मन्त्रशस्त्रादीनि त्वमेव जानीहीति भावः । यतः-सर्वजैत्रे शत्रूणां जेतरि । किमित्येवं वरदानमित्याशङ्कयाह-संग्रामादपलायनलक्षणे वीराणां व्रते दीक्षितानां गृहीतनियमानां शूराणामस्मात्सर्वशस्त्रज्ञानादाधिकमुत्कृष्ट किंचिदवाप्यं प्राप्यं न जागर्ति न स्फुरति नास्ति । किंत्वेतदेव तेषां परमं प्राप्यम् । तस्मादयं वरो युक्त एवेत्यर्थः । दीक्षितानाम् , 'कृत्यानां कर्तरि वा' इति ष[२] ष्ठी ॥
कृच्छं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतु त्वदीयम् । |
कृच्छ्रमिति ॥ हे नल, कृच्छ्रमतिकष्टं दशाविपाकमवस्थापरिवर्त गतस्यापि प्राप्तस्यापदि पतितस्यापि तव चेतो धर्मान्न स्खलतु । किंभूतं चेतः त्वदीयं त्वदायत्तम् । आपदि सर्वैरप्यधर्म एव क्रियते, तव तु चित्तमापद्यपि धर्मपरमेव भूयादिति वरो मया दीयत इत्यर्थः । एतस्य वरस्य दाने हेतुमाह-यस्मात्पुण्यममुञ्चतोऽनन्यभक्तेः पापानासक्तस्य केवलधर्मैकसेविनः पुरुषस्य धर्मार्थकामलक्षणस्त्रिवर्गः स्वहस्ते वसति एवंभूत इव भवति । अत्यक्ते धर्मे तदायत्तावर्थकामावपि प्राप्येते । कृच्छ्रमित्यादिना भविष्यत्कलिप्रभावः सूचितः। 'स्खलतात्तवेदम्' इति पाठः । अन्यस्य भक्तिर्भजनं तदभावोऽनन्यभक्तिर्धर्मातिरिक्तभजनाभावाद्धेतोरिति वा वसतीति वास्तव्यः 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत् । वर्गः सङ्घः । 'त्रिवर्गो धर्मकामार्थैः' इत्यमरः[३] ॥